________________
८८
श्रीजिनसूरमुनिवर्यविरचिता
तेनोक्तम्-स्तवध्यानेन देशे नगरे गृहे सर्वभयेभ्यो रक्षा स्यात् , मनोवाञ्छितं नित्यं प्राप्यते । एतत्स्तवसानायप्रभावमन्त्रपुस्तकान्येतानि ॥७॥ यत्र श्रीधर्मोदयौ स्तः तत्रैतानि सुखानि स्युरिति वैक्रियलब्धिर्दर्शिता । ततोऽग्रे स्वर्णरत्नमयो वो दृष्टः। तत्र लोहमय्यः सप्त प्रतोल्यः। प्रथमप्रतोल्या मध्ये गतः। तत्र सामान्यदेवभवनानि, परितः कल्पवृक्षवनानि । १ । द्वितीयस्यां गतः। तत्र सुवर्णमयक्रीडाशुकपञ्जराणि । शुका नृपं दृष्ट्वा श्लोकं वदन्ति, यथा"समागच्छ समागच्छ, प्रियङ्कर ! महीपते ।।
पुण्याधिकैरिदं स्थानं, प्राप्यते नापरैनरैः ॥ २६५ ॥" तृतीयस्यां कुमारं दृष्ट्वा नृत्यं कुर्वन्तो मयूरा नृभाषयाऽऽहु:"सफलं जीवितं नोऽद्य, राजेन्द्र ! तव दर्शनात् । धन्यं तन्नगरं नूनं, यत्र राजा प्रियङ्करः॥ २६६॥" चतुर्थ्यां कस्तूरिकामृगा अग्रे प्रोच्छलन्ति, राजहंस विवेकेन मां प्रणेमुः ॥ ४ ॥ पञ्चम्यां स्फाटिकरत्नमय्यः क्रीडावापिकाः स्नानमण्डपादीनि ॥ ५ ॥ षष्ठयां इन्द्रसामानिकगृहाणि ॥ ६ ॥ सप्तम्यां दिव्याङ्गनावृन्दानि अधित्यकायां दृश्यन्ते । ततोऽग्रे धरणेन्द्रसभा नानाऽऽश्चर्यमयी देवकोटियुता दृष्टा । तत्र दिव्यं नृत्यं दृष्टम् । धरणेन्द्रेण स्वपुत्रवनव दिनानि पुण्यफलदर्शनार्थ स्थापिता देवा देव्यः प्रतिपत्तिं चक्रुः ।
१ 'वान्छितानि च प्राप्यन्ते' इति क-पाठः। २'धर्मोदयः स्यात् ' इति ह-पाठः। ३ 'मयानि क्रीडा कर्तु क. ' इति ङ-पाठः । ४ ' द्योतयन्ते ' इति ड-पाठः। ५ 'नाय' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org