SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा | ८७ परीक्षितश्च त्वं ध्यानान्न चलितः, तेन तव साहसं महदस्ति । अहो ! उत्तम ! मत्स्थाने समागच्छ यथा तव पुण्यफलं दर्शयामि । ततोऽहं धरणेन्द्रेण सह पातालभवने गतः । तत्र रत्नस्वर्णबद्धा भूमिका सर्वत्र दृष्टा । अग्रे धर्मनरेन्द्रस्यावासो वैक्रियो दर्शितः । ततः श्रीधर्मनृपः साक्षाद् दृष्टः । तत्पट्टराज्ञी जीवदया दृष्टा । तयोः प्रणामो मया कृतः । तावाहतुः - अस्मत्प्रेसा देन चिरं राज्यं कुरु । ततोऽग्रे सप्तापवरिका दृष्टाः । मया पृष्टम् - एतासु किमस्ति १ धरणेन्द्र आह - सप्तसु चापवरि कासु सप्त सुखानि सन्ति । मयोक्तम् - कानि तानि १ इन्द्र आह "आरोग्यं प्रथमं १ द्वितीयकमिदं लक्ष्मी २ स्तृतीयं यशः ३ तुर्यं स्त्री पतिचित्तगा ४ च विनयी पुत्रस्तथा पञ्चमम् ५ । षष्ठं भूपतिसौम्यदृष्टितुला ६ वासोऽभ्यः सप्तमं ७ सप्तैतानि सुखानि यस्य भवने धर्मप्रभावः स्फुटम् ॥ २६४॥" ततः सप्तापवरिका दृष्टाः । प्रथमायां देवः सर्वरोगहरः, चामर-: युग्मं चास्ति ॥ १ ॥ द्वितीयायां सुवर्णरत्नमाणिक्यादीनि सन्ति ॥ २ ॥ तृतीयायां महेभ्योऽर्थिभ्यो दानं ददानोऽस्ति ॥ ३ ॥ चतुर्थ्यां स्त्री पतिभक्तिं कुर्वाणाऽस्ति ॥ ४ ॥ पञ्चम्यां विनीतपुत्रपौत्रवध्वादिकुटुम्बं सुमेलम् ॥ ५ ॥ षष्ठयां राजा न्यायी प्रजाहितकरो दृष्टः || ६ || सप्तम्यां कोऽपि देव उपसर्ग - हरस्तवगुणनपरो दृष्टः ॥ ७ ॥ मया पृष्टम् कस्मादेतद्गुणनम् १ । १ 'भुवने' इति ङ-पाठः । २ ' सदने' इति ङ-पाठः । ३ 'भये' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy