SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । ८३ एकदा श्रीप्रियङ्करराजा प्रभुप्रासादे श्रीपार्श्वनाथाग्रे भोगं गृहीत्वा निशायां तद्धयानाय प्राप्तः । सेवकाश्च प्रासादाद बहिः स्थिताः । प्रातःसमयो जातः । सभायां राजलोकाः समागताः । राजाऽद्यापि (किं) सदसि ने समागत इति प्रधानैरङ्गरक्षकाः पृष्टाः । तैरुक्तम्-राजा देवगृहादागतो नास्ति । प्रधानास्तत्र गताः । मध्ये कपाटं दत्तमस्ति । कपाटविवरेण तैर्विलोकितम् । श्रीपाश्वनाथः सुरभिपुष्पैः पूजितोऽस्ति, अग्रे प्रदीपको वर्तते; परं राजाध्ये उपविष्टो न दृश्यते । हृदि ज्ञातं तैः-राज्ञो निद्राऽऽगता संभाव्यते। साऽपि देवगृहे ८४ आसातनाभयान घटते। राजा तथापि प्रधानैर्मधुरव वनरालापित:-आस्थानसभाऽलङ्क्रियताम् । सूर्योऽपि श्रीप्रभुमुखकमलविलोकनायोचैश्चटितोऽस्ति । सभालोकः पुनः प्रणामार्थमूर्खदमोऽस्ति । तथापि मध्ये कोऽपि न ब्रूते । मन्त्रिणो दध्यु:-केनापि देवेन वा विद्याधरेण वाऽपहतः । ततः कपाटोद्धाटनाय यद्यदेनकधा कृतं तत् निष्पुण्यकमनोरथवत् निष्फलं जातम् । कुठाराः कुण्ठिता अभूवन् । देवतादत्तं कपाटं केनाप्युद्धाटयितुं न शक्यते । ततो भोगादि मन्त्रिभिः कृतम् । तदा तदधिष्ठायको देवोऽवक-पुण्यवन्नृपदृष्टया द्वारमुद्धटिष्यति । राजा सुखेन वर्तते, चिन्ता नानेया । प्रधानैः प्रोक्तम्-अस्मत्स्वामी कास्ति ? केनापहृतः ? । कदा समागमिष्यति ? । ततो देवः प्राह १ 'तत्स्तवनलयं' इति ङ-पाठः। २ 'नायाति' इति क-पाठः।३ 'प्रातः इति ट-पाठः। ४ 'मन्त्री दध्यौ' इति क-पाठः। ५ 'द्धाटनोपाया अनेके कृताः निष्पुण्यकमनोरथवत् निष्फला जाताः' इति ङ-पाठः। ६ 'बलिभोगादिः' इति ड-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy