SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्री जिनसूरमुनिवर्यविरचिता "ऋद्धिं दर्शयितुं स्वीयां, लात्वा तं धरणो गतः । समेष्यति नृपो नून - मितश्च दशमे दिने ।। २५३ ॥ आगत्य सुरसान्निध्यात्, पुरो दीपं 'विधाय सः । प्रत्यहं पार्श्वनाथस्य, पूजां कृत्वैव भोक्ष्यते ॥ २५४ ॥ युग्मम् । ततो मन्त्रिणस्तद्राजपरिवारश्च सर्वेऽपि हृष्टाः स्वगृहे गताः । (अन्यदा) प्रातः प्रासादस्थप्रतिमापूजाप्रदीपादि लोकाः पश्यन्ति । दशमदिने मन्त्रिणः राजपरिवाराः संमुखा गताः । तावता वने दिव्यतुरङ्गमे चटितो राजा समायातः । सर्वेऽपि प्रणामं चक्रुः । राज्ञो महदाश्चर्यं जातम् (पृष्टं ) च । मदागमनं कथं ज्ञातम् । ततो मन्त्रिणोऽवादिपुः - देववाक्यात् वाद्येषु वाद्यमानेषु तोरणेषु बद्धेषु पताकासूत्तम्भितासु गन्धर्वेषु गायत्सु राजां सोत्सवं देवगृहे ( हैं ) प्राप्तः तावत् कपाटानि तद्दृष्टया तत्कालमुद्वटितानि, यथा सहकारमञ्जर्या कोकिलाकण्ठम्, यथा वा विद्यायोगेन नरः कुण्ठः सकर्णः स्यात् । ततो यथाविधि प्रसादे प्रदक्षिणां दवा नैषेधिकीं कृत्वा मध्ये प्राप्तः । फलानि ढौकयित्वा देवस्तुतिमकरोत् । यथा ८४ “श्री पार्श्वो घरणेन्द्रसेवितपदः पार्श्व स्तुवे भावतः पार्श्वेण प्रतिबोधितच कमठः पार्श्वय कुर्वेऽर्चनम् । पार्श्वाच्चिन्तितकार्य सिद्धिरखिला पार्श्वस्य तेजो महत् श्रीपार्श्वे प्रकटः प्रभाव इह भोः श्रीपार्श्व ! सौख्यं कुरु ॥ २५५ ॥ १' विधास्यति' इति ङ-पाठः । २ ' पूजाकृच्च भविष्यति' इति ङ-पाठः ३ ' वाजित्राणि ' इति ङ-पाठः । ४ 'भक्तितः' इति क-पाठः । ५ ' कुर्वे नतिम् " इति ङ-पाठः । ६ 'भावगहना' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy