________________
श्रीजिनसूरमुनिवर्यविरचिता
रक्षा स्यात् । राजेन्द्र ! यत तव सुख-संयोग-सन्तान-सम्पत्-समीहितार्थसिद्धिः साम्राज्यप्राप्तिः तथा दुःख-दारिद्र(य)-दास-दौर्भाग्य-पाप-पाटच्चर-विपन्निवृत्तिथाभूत् स सर्वोऽप्युपसर्गहरस्तवगुणनध्यानमहिमा ज्ञेयः। प्राक् स्तवे षष्ठी गाथाऽभूत् । तत्स्मरणेन तत्क्षणात् धरणेन्द्रः प्रत्यक्ष एवागत्य कष्टं निवारितवान् । ततस्तेन धरणेन्द्रेण श्रीपूज्याग्रेप्रोक्तम्-पुनःपुनरत्रागमनेनाहं स्थाने स्थातुं न शक्तोऽस्मि । इति(तः?) तेन षष्ठी गाथा कोशे स्थाप्या। पञ्चभिर्गाथाभिरपि अत्रस्थस्तत्स्तवं ध्यायतां सतां सान्निध्य करिष्यामि । तदनु पञ्चगाथाप्रमाणं स्तवनं पठ्यते। आद्यगाथयोपसर्गोपद्रवविषहरविषनिवृत्तिः स्यात् ॥ १॥ प्रथमद्वितीयगाथाभ्यां गुणिताभ्यां ग्रहोगमरक(की)विषमज्वरदुष्टदुर्जनस्थावरजङ्गमविषोपशम: स्यात् ॥ २॥ आद्यद्वितीयतृतीयगाथामिगुणिताभिर्नरतिरश्चां विषमरोगदुःखदौर्गत्यहीनकुलादि न स्यात, सुखसुगतिसौभाग्यलक्ष्मीमहत्त्वादि च स्यात् ॥ ३ ॥ चतसभिगोथाभिः सर्ववाञ्छितप्राप्तिः स्यात् ॥ ४॥ एतासु श्रीपावं. चिन्तामणिमन्त्रो न्यस्तोऽस्ति श्रीभद्रबाहुपादैः। सम्यग गाथापञ्चकप्रमाणं गुणितं इहलोकपरलोककार्यकरम् ॥५॥ अत्रानेके मन्त्राः स्तम्भन-मोहन-वशीकरण-विद्वेषणो-चाटनरूपा गुप्ताः सन्ति । ते मन्त्रा यन्त्राश्च तदृत्तितो ज्ञेयाः । ततो नृपः श्रीगुरुन् वन्दित्वा स्वस्थाने प्राप्तः । राजाऽऽसन्ने श्रीपार्श्वनाथप्रासादे रात्रौ सर्वदोपसर्गहरस्तवनगुणनध्यानं करोति प्रहरं यावत् ॥
१ लघुवृत्तितः इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org