________________
प्रियङ्करनृपकथा ।
तीर्थोन्नतिठस्तीर्थकृतां पदाप्ति ५.
गुणा हि यात्राप्रभवाः स्युरेते ॥ २४७ ॥ वपुः पवित्रीकुरु तीर्थयात्रया
चित्तं पवित्रीकुरु धर्मवाञ्छया। वित्तं पवित्रीकुरु पात्रदानतः
कुलं पवित्रीकुरु सच्चरित्रतः ॥ २४८॥" वैशेषतः श्री'शत्रुञ्जय'महातीर्थयात्रायाः फलं वर्तते । यतः
" 'नमस्कार'समो मन्त्रः, 'शत्रुञ्जय'समो गिरिः। धर्मो जीवदयातुल्यः, शास्त्रं 'कल्प'श्रुतान्नहि ॥ २४९॥ 'शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्तोत्रविधानतः ॥ २५० ॥ पल्योपमसहस्रं तु, ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसश्चितम् ॥ २५१॥" श्रीप्रियङ्करो गुरूपदेशं श्रुत्वा विशेषधर्माभिग्रहान् जग्राह । हुनरुपसर्गहरस्तवगुणानायं पप्रच्छ । श्रीगुरवः प्रोचुः-अस्मिन् तवे श्रीभद्रबाहुगुरुभिः मन्त्रा यन्त्राश्चानेके गोपिताः सन्ति । पत्स्मरणादद्यापि "सलिलानलविषविषधर-दुष्टग्रहराजरोगरणभयतः। राक्षसरिपुगणमारी-चौरेतिश्वापदादिभ्यः॥ २५२ ॥"
१'श्रीशत्रुजयतीर्थयात्रामहाफलं ' इति क-पाठः । २ 'यथा' इति -पाठः । । 'शत्रुञ्जयो येन दृष्टो' इति ङ-पाठः। ४ 'गुप्ताः' इति क-पाठः । १ इदं पद्यं श्रीमानदेवसूरिकृते लघुशान्ति'स्तोत्रे (गा० १२) विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org