SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता चन्द्रमाः । ततस्तद्बुद्धिरञ्जनेन राज्ञा मन्त्रिपुत्रो मन्त्रिपदे स्थापितः । यतः "" ८० बुद्धधा जानन्ति शास्त्रं विमलगुणतती राजमानं च नित्यं बुद्धा सर्वार्थसिद्धिर्भवति रिपुबलं जीयते तत्क्षणेन । बुद्धया गृह्णन्ति दुर्गं लघुरपि नृपती रक्ष्यमाणं सुयोधैः बुद्धया चाणाक्य- रोहा ऽभयकुमरवराः प्रापिता द्राक् महत्त्वम् || २४४ ॥" तस्मिन्नवसरे श्रीधर्मनिधिसूरयः तत्र प्राप्ताः तेषां वन्दनार्थ श्रीप्रियङ्करो राजा सपरिवारो गतः । श्रीगुरुभिरुपदेशो दत्तः । यथा "जिनप्रणामो जिननाथपूजा नमस्कृतेः संस्मरणं च दानम् । सूरीश्वराणां नतिपर्युपास्ती रक्षा त्रसानां दिनकृत्यमेतत् ॥ २४५ ॥ " अस्मिन् काव्ये कर्तुर्नाम । "श्रीतीर्थयात्राकरणं महेन १ साधर्मिकाणामदनस्य दानम् २ | श्रीसङ्घपूजा ३ ssगमलेखनं च ४ तद्वाचनं ५ स्यादिति वर्षकृत्यम् ॥ २४६ ॥” तीर्थयात्राफलं यथा 44 सदा शुभध्यान १ मसारलक्ष्मी फलं २ चतुर्धा सुकृताप्तिरूंचे ३ । १ आगतः ' इति ङ-पाठः । २ अस्य पयस्य पदप्रारम्भिकाक्षरेण कथाकर्तुः ' जिनसूर ' इति नाम प्रकटीभवति । ३ ' लक्ष्म्याः फलं ' इति ङ-पाठः । ४' रुचैः ' :' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy