________________
१४
काव्यमाला |
एको वि कहसारो ण देइ गन्तुं पआहिणवलन्तो । किं उण बाहाउलिअं लोअणजुअलं पिअअमाए ॥ २५ ॥
[ एकोऽपि कृष्णसारो न ददाति गन्तुं प्रदक्षिणं वलन् । किं पुनर्बाष्पाकुलितं लोचनयुगलं प्रियतमायाः ॥ ] एकोपि कृष्णसारो न ददाति वलन् प्रदक्षिणं गन्तुम् । किं पुनरस्राकुलितं लोचनयुगलं प्रियतमायाः ॥ २५ ॥
प्रदक्षिणं वलन् दक्षिणतो वाममागच्छन्नित्यर्थः । एकोपि कृष्णसारस्तथाविधो मृगो गन्तुं न ददाति । कृष्णसारे मृगे प्रदक्षिणं वलति यात्रा न सिध्यतीति शाकुनिकाः । पुनः बाष्पाकुलितं तथाविधयोः कृष्णशारयोः प्रियाया लोचनयोर्युगलं तु किमिति भावः । 'बाहाउलिअं' इत्यस्य मृगपक्षे 'व्याधाकुलितम्' इत्यभिज्ञातव्यम्। संस्कृते तदिदं न संभवति । तथा च कान्तास्नेह निगडितोयं न प्रवसतीति द्योतितम् । इयं प्रवासविलम्बेन पुंसः प्रेमपरीक्षेति सरखतीकण्ठाभरणे भोजः ।
कश्चिदन्यवनितासक्तः प्रियया सोपालम्भमधरीकृतोऽभवत् । ततः खापरावप्रच्छादनाय मानमभिनयन्तमनुनीयमानप्यनुनयमगृह्णन्तं प्रणयिनी सप्रेमदण्डमाहण कुणन्तो विअ माणं णिसासु सुहसुत्तदरविबुद्धाणम् । सुण्ण अपास परिमृसणवे अण जइ सि जाणन्तो ॥ २६ ॥ [ नाकरिष्य एव मानं निशासु सुखसुप्तदरविबुद्धानाम् । शून्यीकृतपार्श्व परिमोषणवेदनां यद्यज्ञास्यः ॥ ] मानमकरिष्य इह नो निशासु सुखसुप्तदरविबुद्धानाम् । शून्यितपार्श्वविमोषणपीडामज्ञास्य एव यदि ॥ २६ ॥
निशासु स्वकान्तया सह सुखसुप्तानां मध्ये च किञ्चिद्विबुद्धानां ततोऽन्याभिसारिण्या स्वकान्तया शून्यीकृतेन पार्श्वेन ( शय्यैकदेशेन ) यत्परिमोषणं प्रतारणं तेन या वेदना तां यदि त्वमज्ञास्यस्तदा त्वमिह अस्मिन्नन्यासक्तिविषये मानं नाऽकरिष्य एवेति योजना । यथा त्वमन्यासक्तोपि दोषमनभ्युपगच्छन् मानेन मां सुभृशं व्यथयसि, तथाहमप्यन्यासक्ता स्यां तदा त्वमिमां वेदनां जानीयाः । ममैवायं दोषः, यदहं त्वत्प्रणयभङ्गं न करोमीति भावः ।
कृत कलहयोर्दम्पत्यो रात्रिवृत्तान्तपरिज्ञानायाऽऽगता प्रियसखी प्रणयरोषविनिवॄस्त्यर्थमाह
पण अकुविआण दोह्र वि अलिअपसुत्ताणं माणइलाणम् । णिच्चलणिरुद्धणीसास दिष्णकण्णाण को मल्लो ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org