________________
१ शतकम् ] संस्कृतगाथासप्तशती।
[प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानवतोः ।
निश्चलनिरुद्ध निःश्वासदत्तकर्णयोः को मल्लः ॥] प्रणयकुपितयोरुभयोरपि मानवतोरलीकनिद्रितयोः।
निभृतनिरुद्धश्वासाऽवहितश्रवसोर्नु को मल्लः ॥ २७ ॥ स्वनिःश्वासशब्दान्तरायेण अपरस्य निःश्वासशब्दो न भूयत इति निभृतं निश्चलं निरुद्धनिःश्वासयोस्तथा च परस्परशब्देऽवहितश्रवसोर्दत्तकर्णयोरत एव कृतकप्रसुप्तयोनिवतोः । दत्तकर्णतया कृत्रिमनिद्रा प्रतीता । परस्परनिःश्वासाकर्णनदत्तावधानतया मानेऽपि परस्परमभिलाषः सूच्यते। अवहितश्रवसोरपि मानवतोरित्यनेन परस्परमनुनयेच्छायामपि बलादभिनीतमानयोरित्यहो अद्भुतो मान इति परिहासो द्योत्यते । को मल्ल इत्युपालम्भप्रश्नः । न कोपीत्यर्थः । परस्पराऽवधीरणाऽसमर्थों युवां वृथैवात्मानं खेदयथ इति भावः ॥ काचिदूती नायिकाया देवरानुरक्तत्वेनाऽसाध्यतां सूचयन्ती कामुकं प्रत्याह
णवलअपहरं अङ्गे जहिं जहिं महइ देवरो दाउम् । रोमञ्चदण्डराई तहिं तहिं दीसइ बहूए ॥ २८ ॥ [नवलताप्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम् ।
रोमाञ्चदण्डराजिस्तत्र तत्र दृश्यते वध्वाः ॥] नवलतिकाऽऽहतिमिच्छति यतो यतोऽङ्गेषु देवरो दातुम् ।
रोमाञ्चदण्डराजिस्ततस्ततो दृश्यते वध्वाः ॥२८॥ येषु येष्वङ्गेष्विति सप्तम्यर्थे सार्वविभक्तिकस्तसिः । बहुवचनेन सर्वेष्वप्यङ्गेषु रोमाञ्चोदयेन रसोत्कर्षों ध्वन्यते । नवलताया आहतिः प्रहारः प्रणयविभ्रममभिव्यनक्ति । दण्डपदं रोमाञ्चकण्टकानां दृढावस्थानेन सात्विकस्थैर्य ध्वनयति । 'वधू पदेन श्वशुरादीनां कुटुम्बे कृतावस्थाना गृहवासिना देवरेण च बद्धभावा नेयं साधयितुं शक्यत इति, कामुकं प्रति ध्वन्यते । सेयं 'चूतलतिका'नानी क्रीडेति सरस्वतीकण्ठाभरणे भोजः । तत्र हि ‘कस्ते प्रियतमः' इति पृच्छद्भिः नवलताभिः प्रियो जनो हन्यते ॥ प्रोषितपतिका प्रियतमसमीपगामिनमध्वगं सखीजनं वा तदानयनत्वरार्थमेवमाह
अन्ज मए तेण विणा अणुहूअसुहाइँ संभरन्तीए । अहिणवमेहाण रवो णिसामिओ वज्झपडहो व्व ॥ २९ ॥ [अद्य मया तेन विना अनुभूतसुखानि संस्मरन्त्या।
अभिनवमेघानां रवो निशामितो वध्यपटह इव ॥] तेन विना बत मयका हनुभूतसुखानि संस्मरन्त्याऽद्य । नादोऽभिनवधनानां निशासितो वध्यपटह इव ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org