________________
१६
काव्यमाला |
गर्जितश्रवणाद्वर्षा
पूर्वानुभूतसुखानि संस्मरन्त्या मया मेघानां रखो वध्यपटह इक वध्यस्थानं नीयमानस्य दोषघोषणापटहशब्द इव श्रुत इति भावः । एवं च वर्षाखपि तदनागमने मे मरणमवश्यंभावीति यत्समयप्राप्तं तद्विधीयतामिति ध्वनितम् ॥
असुन्दर भार्यानुरागितया दूतीजनसंघटनापराङ्मुखं ग्रामपालपुत्रं कस्याश्चित्संगमायोत्साहयितुं काचिद्द्ती सोपालम्भमाह
णिक्कव जाआभीरुअ दुदंसण डिम्बईडसारिच्छ । गामो गामणिणन्दण तुज्झ कए तह वि तणुआइ ॥ ३० ॥ [ निष्कृप जायाभीरुक दुर्दर्शन निम्बकीटसदृक्ष ।
ग्रामो ग्रामणीनन्दन तव कृते तथापि तनुकायते ॥ ] निष्कृप जायाभीरुक दुर्दर्शन निम्बकीटसंनिभ है । तनुकायते कृते ते ग्रामोयं ग्रामणीसूनो ॥ ३० ॥ अनुरक्तसुन्दरीजनविमुखत्वान्निर्दय ! जायाभीरुक भार्यापरतन्त्र ! अतएव स्वच्छन्द - विहरणाभावाद्दुर्दर्शन दुर्लभदर्शन ! एवं तु अस्मादृशान्नैवाकारयसि, परं खैरविचरणाभावान्मार्गादिष्वपि तव दर्शनं दुर्लभमित्यभिप्रायः । निम्बकीटसंनिभ, तितरुचिशालितया निम्बकीटो यथा दूरपरिहरणयोग्ये निम्ब एव रमते तथा सुन्दररमणीषु रुचिशून्यस्त्वं कुरूपायामेव भार्यायां व्यासज्यसे, अत एव निम्बकीटसदृश हे ग्रामणीसूनो ग्रामपालनन्दन ! त्वं हि ग्रामप्रमुखस्य पुत्रः कस्त्वां दमयितुं शक्तः, अत एव भवता तु निर्भयेण भाव्यम् परं भवांस्तु जायाभीरुकतया न तथेति निर्भयताप्रदर्शनेन प्रोत्साहनं व्यज्यते । अयं ग्रामः, ग्रामनिवासी समग्रोपि विलासिनीजनः, तव कृते 'कथं भवता समागमः स्यात्' इति भवच्चिन्तया तनुकायते दुर्बलो भवति । 'त्वं तथा कमनीयो यथा सकलोपि कामिनीवस्त्वां कामयते । त्वं तु कुरूपापरवशो न तं वीक्षसे' इति भावः । 'ग्रामस्तनुकायते' इत्यनेन सुन्दर कामिनीवर्गः शनैः शनैर्हसति, यतस्त्वत्सदृशा न तस्मै विलासावलम्बनं ददतीत्यपि सूच्यते ॥
>
ग्रामणी सुत योषिदनुरक्तत्वेऽपि तद्भर्तुः सुभटतया भयेन नाभ्युपगच्छन्तं कंचित्कामुक प्रोत्साहयितुं पत्यावनिच्छया तस्याः सुखसाध्यतां पुरस्य सुखप्रवेशनिर्गमतया निरपायतां च सूचयन्ती दूती सुभटस्तुतिव्याजेनाह
-
पहरवणमग्गविसमे जाओ किच्छेण लहइ से णिद्दम् । गामणिउत्तस्य उरे पल्ली उण सा सुहं सुवई ॥ ३१ ॥ [ प्रहारवणमार्गविषमे जाया कृच्छ्रेण लभते तस्य निद्राम् । ग्रामणीपुत्रस्योरसि पल्ली पुनः सा सुखं स्वपिति ॥ ] हरवनमार्गविषमे कृच्छ्राजायाऽस्य निद्रितं लभते । स्वपिति पुनः पल्ली सा सुखमुरसि ग्रामणी सूनोः ॥ ३१ ॥
१ 'प्रहृतित्रणकिण विषमे' इति पाठः क्वचित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org