________________
१ शतकम् ] संस्कृतगाथासप्तशती । परिहरतीत्यादरेण स्वेच्छाप्रकाशनार्थ चुम्बनाय नमितोधरपुटो यस्मिन् । अधरपुट एव चुम्बनसमयादोष्ठपदापेक्षया स्वारस्यम् । वर्णवृतेन चिह्ननभयाद् असंयोजिता नासिका यत्र, तथा असंहतललाटम् । परितः सर्वतश्रुम्बनमध स्मरामः, तत्स्मृतिरद्यापि नापयातीत्यर्थः । यद्वा प्रोषितः कश्चित्प्रियायाः स्पृष्टकं नामानुरागातिशयसूचकमालिङ्गनं स्मरन्नात्मानं विनोदयतीति गाथातात्पर्यम् । 'परिउम्बणं' परिरम्भणं स्यात् ।
जनसंमपि प्रियतमं प्रति प्रकाशितशृङ्गारचेष्टां सखी प्रबोधयितुं प्रच्छन्नकामुकोक्तं कुलजाया गाम्भीर्यगुणं काचिदाह ---
अण्णासआइँ देन्ती तह सुरए हरिसविअसिअकवोला । गोसे वि ओणअमुही अह सेत्ति पिआंण सदधिमो ॥ २३ ॥ [आज्ञाशतानि ददती तथा सुरते हर्षविकसितकपोला ।
प्रातरप्यवनतमुखी इयं सेति प्रियां न श्रद्दध्मः ॥] आशाशतानि ददती तथा रते हर्षविकसितकपोला।
प्रातस्त्ववनतवदना न श्रद्धध्मः प्रियां सेति ॥२३॥ रते सुखजनितहर्षेण पुलकितकपोला सती । गृहाणाधरम् , परामृश नितम्बम् , मुञ्च चिकुरमित्यादीन्याज्ञाशतानि तथा ददती, प्रातस्तु-किमप्यजानतीवाऽवनतवदना । 'रात्रिसंगता सेयं प्रिया' इति न विश्वसिमः । प्रातस्तु-इति अपिस्थाने तुरेवार्थसमपकः । लोकसमक्षं गूढाकारतैव नायकप्रीतिहेतुः, न तु चाञ्चल्यमिति भावः ।
अन्यानुरक्ततया सविधमनागच्छन्तं पुनर्गुरुजनमर्यादां च कारणीकुर्वाणं नायकमुपालभमाना कुलीनतानमस्कारच्छलेन काचिदाह
पिअविरहो अप्पियदंसणं अ गरुआई दो वि दुक्खाई। जीएँ तुमं कारिजसि तीऍ णमो आहिजाईए ॥ २४ ॥ [प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दुःखे ।
यया त्वं कार्यसे तस्यै नम आभिजात्यै ॥] प्रियविरहोऽप्रियदर्शनमपि गुरुके द्वे इमे दुःखे ।
त्वं कार्यसे यया किल तस्यै नम आभिजात्यै ते ॥ २४ ॥ प्रियायास्तस्याः विरहः, अप्रियायाः मम च दर्शनम् , द्वे अपि गुरुके इमे दुःखे यया कार्यसे त्वम् अनुभाव्यसे, तस्यै ते आभिजात्यै कुलीनतायै नमोऽस्तु । करोतिरत्राऽनुभवार्थः । अत एव मा दुःखमनुभवेत्यर्थ मा दुःखं कार्षीरिति व्यवह्रियते। अस्मिन्न्तुस्नानाद्यवसरेऽपि यन्मामुपागतोऽसि तदपि बन्धुजनाभ्यर्थनां धर्ममर्यादा वाऽनुरुन्धान एव, न तु स्नेहेनेत्यहो ते कोलीन्यमिति प्रच्छन्न उपालम्भो ध्वन्यते ।
गमनाय सजीभूतोऽपि कथमयं न प्रस्थित इति केनचित्पृष्टे सपरिहासं तद्वयस्य आह
सं. गा. २ Jain Education International For Private & Personal Use Only
www.jainelibrary.org,