________________
काव्यमाला।
[अलीकप्रसुप्तकविनिमीलिताक्ष हे सुभग ममावकाशम् । ___ गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरयिष्यामि ॥] कृतकस्वापनिमीलितनयन सुभग देहि मह्यमवकाशम् ।
गण्डपरिचुम्बनोद्गतपुलक पुनर्नव चिरयिष्ये ॥ २०॥ शयनीयमध्ये मह्यमवकाशं देहि अग्रे नैवं चिरयिष्यामीत्यनेन आत्मापराधक्षमापनरभसेन नायिकाया अपि रसोद्गमो व्यज्यते । केचित्तु-'देसु हअमज्झओआसम्' इति पदच्छेदं विधाय 'हतमध्य अङ्गविन्यासेन रुद्धमध्य अवकाशं देहि' इति व्याचक्षते। गण्डपरिचुम्बनेत्यादिविशेषणेन नायिकायाः प्रियेङ्गितज्ञानं यूनोश्च परस्परमनुरागश्च ध्वन्यते । पुंसो व्याजोदाहरणे गृहीतेयं गाथा भोजेन (५ परि.)।
वेश्याऽऽह्वानार्थमागते नायकसुहृदि पूर्वतो गृहाऽवस्थितं विटमाच्छादयन्ती वेश्यामाता दुहितरमाह
असमत्तमण्डणा विअ वच्च घरं से सकोउहल्लस्स । वोलाविअहलहलअस्स पुत्ति चित्ते ण लग्गिहिसि ॥ २१ ॥ [असमाप्तमण्डनैव ब्रज गृहं तस्य सकौतूहलस्य ।
व्यतिक्रान्तौत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि ॥] असमाप्तमण्डनैव ब्रज गेहं तस्य कौतुकिनः।
नातिगतौत्सुक्यस्य प्रसंक्ष्यसे मानसे पुत्रि ॥२१॥ सकौतूहलस्य तस्य गेहमसमाप्तमण्डनव व्रज । मण्डनविलम्बवशाव्यतिक्रान्तोत्कण्ठस्य तस्य चित्ते न प्रसक्ता भविष्यसीत्यनेन वेश्याखनुरागोदयो गाढोत्कण्ठानामेव पुंसां भवति, औत्सुक्यशैथिल्ये तु चेतःप्रसक्तिहीयत इति वृद्धायाः कुट्टन्या अनुभवः प्रकटीक्रियते । एवं च भण्डनकरणेनैवाऽस्या विलम्बो जातो नान्यप्रसङ्गेनेति युक्त्या भुजङ्गगोपनम् । पुंसः कुतूहलस्योदाहरणमिदं सरस्वतीकण्ठाभरणे।
कश्चिन्नागरिकः शृण्वतीषु रसिकवामासु तच्चित्तहरणार्थ रजस्खलाया अप्यपरित्यागेनात्मनः कामुकत्वातिशयं प्रकटयन् सहचरमाह
आअरपणामिओहं अघडिअणासं असंहअणिडालम् । वण्णधिअतुप्पमुहिए तीए परिउम्बणं भरिमो ॥ २२ ॥ [आदरप्रणामितौष्टमघटितनासमसंहतललाटम् ।
वर्णधृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामः ॥] आदरनमिताधरपुटमघटितनासिकमसंहतललाटम् । वर्णघृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामोऽद्य ॥२२॥
हरिद्रावर्णमिश्रं घृतं वर्णघृतम् । देशविशेषे रजस्खलामुखं वर्णघृतेन लिप्यत इति काचित्प्रथा । तस्याः, यस्याः सौन्दर्यं मया त्वयि प्रकटितम् । एवंविधामपि मां न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org