________________
१ शतकम् ]
संस्कृतगाथा सप्तशती ।
तव अधरप्राप्त्यर्थम् अग्निकृतपूजोचितस्य रक्तपाटलाकुसुमस्येव सुरभिशीतलो गन्धो यस्य तम् । ते मुखमारुतं पिबन् शिखी धूममुद्रिरति- न च प्रज्वलति । त्वं मा कोप कार्षीः । रोषारुणत्वन्मुखदिदृक्षया इव धूमोद्गमरूपं चाटुमयमग्निराचरति । त्वन्मुखमारुतपानलालसयैव नायं ज्वलति, ज्वलिते तस्मिन्मुखमारुतदानानवसरात् । अनौ कामुकचेष्टावर्णनेन स्वाभिलाषो ध्वनितः । त्वं तु रन्धनपरतया त्वदवलोकन कौतुकोपगतमपि मां दृष्ट्यापि नाभिनन्दसीति साकूतमुपालभ्यते । वैषयिकीषु रतिषु गन्धे रतिरित्युदाहृतवान् कण्ठाभरणे भोजः ( ५ परि. ) ।
नवोढायाः कस्याश्चिनूतनगर्भधारिण्याः कान्तं प्रति प्रणयातिशयं सूचयन्ती काचिदाह
किं किं दे पडिहासइ सहीहिँ इअ पुच्छिआएँ मुद्धाए । पढमुग्गअदोहणीए णवरं दइअं गआ दिट्ठी ॥ १५ ॥ [ किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्धायाः । प्रथमोद्गत दोहदिन्याः केवलं दयितं गता दृष्टिः ॥ ] किं किं नु रोचते ते मुग्धाया इति सखीविपृष्टायाः । प्रथमोद्गतदोहदिन्या दयितं प्रति केवलं गता दृष्टिः ॥ १५ ॥ किं किं रोचत इति बहुवस्तुगतमप्यभिलाषं सखीभिः पृष्टया मुग्धया मौग्ध्याद् गर्भायासमजानत्या तया दृष्ट्या केवलं दयिताऽभिलाषः सूचितः । सर्ववस्तुस्थाने दयित एव सर्वात्मना कामनीय इति भावः । यद्वा प्रश्ने सति दयिते दृष्टिदानेन 'ममाभिलाषमपि दयित एव जानातीति दयिते हृदयैक्यमभिव्यज्यते । अथवा सपत्नीं प्रति सासूयस्य सपत्नीजनस्योपालम्भवादोयम् । मुग्धाया इति मोहवशाद् गर्भायासमप्यपरिगणयन्त्याः । प्रथमोद्गतेति । बहुवारं प्रसूतास्तु गर्भखेदखिन्नाः पूर्वानुभवात्सुरताया सं परिहरन्ति । इयं त्वननुभूतप्रसवखेदा प्रियसमागममेव परमभिलषतीति तदाशयः । संभोगपरीष्टिषु, दोहदेन मुग्धायाः प्रेमपरीक्षेति सरस्वतीकण्ठाभरणम् ( ५ परि. ) ।
प्रोषितपतिका काचिद्विरहदाहवैकल्यमभिव्यञ्जयन्ती कान्तसमागमविषये परिजन त्वरयितुं चन्द्रप्रार्थनाव्याजेनाह-
अमअम गअणसेहर रअणीमुहतिलअ चन्द दे छिवसु । छित्तो जेहि पिअअमो ममं पि तेहिं विअ करेहिं ॥ १६ ॥ [ अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश । स्पृष्टो यैः प्रियतमो मामपि तैरेव करैः ॥ ]
अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश माम् । तैरेव तात किरणैर्यैरिह मे प्रियतमः स्पृष्टः ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org