________________
काव्यमाला।
त्वरितोपसर्पणं ध्वन्यते । अथवा न विपरीतलक्षणा । साधारण एवार्थो यथा-सा मत्सखी सत्यमेव द्रष्टुं जानाति, यतोऽनन्यरूपश्लाघिनी त्वद्रूपमेव बहु मन्यते इत्याशयः। 'सहशि जने रागो युज्यते' इत्यनेन रूपाऽभिजनादिभिरनुरूपे त्वयि तस्याः समागमौत्सुक्यं युक्तमेवेति नायिकायाः स्तुत्यनुरागाभ्यां नायकप्रोत्साहनम् । म्रियतामित्यनेन तव समागममप्राप्य सा जीवितं जह्यादिति तस्या दशा सूच्यते । ततश्च तस्य स्त्रीवधपातकम् , आत्मनश्चानुरोधभङ्गभीरुत्वं ध्वनितम् । अस्या मरणमपि श्लाघ्यमित्यनेन अनुरूपानुध्यानात्त्वद्तचित्ताया मरणे जन्मान्तरे त्वत्प्राप्तिसंभव इति प्रेमातिशयध्वननेन नायकचेतःप्रोत्साहनं सूच्यते । सरखतीकण्ठाभरणे अनुरूपविषयस्यानुरागस्योदाहरणे गृहीतेयं गाथा (५ परि.)। _ 'गृहकार्यसत्तायाः प्रेयस्या वस्त्रादिमालिन्यं न प्रियवैमुख्याय' इति मालिन्यशङ्कया गृहकायेपराङ्मुखीं खसखी प्रबोधयन्ती काचिदाह
घरिणीऍ महाणसकम्मलग्नमसिमलिइएण हत्थेण । छित्तं मुहं हसिजइ चन्दावत्थं ग पइणा ॥ १३ ॥ [गृहिण्या महानसकर्मलनमषीमलिनितेन हस्तेन ।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥] गहिन्या माहानसकर्ममसीमलिनितेन हस्तेन ।
स्पृष्टं मुखमुपहसति हि चन्द्रावस्थां गतं दयितः ॥ १३ ॥ महानससम्बन्धिकर्मणो या मसी मलिनाम्बुकालिमा तया मलिनीकृतेन हस्तेन स्पृष्टम् संक्रान्तश्यामिकमित्यर्थः । अत एव सलाञ्छनमिवेति चन्द्रावस्थां गतं मुखं प्रेमातिशयनिबन्धनकुतुकेन दयित उपहसतीत्याशयः । यस्य यदुचितं कर्म तदनुतिष्ठतो वैरूप्यमप्यलङ्करणमेव । यतो लग्नमसीश्यामिकमपि मुखं पत्या सपरिहासं चन्द्रेणोपमीयते । अत एव कुलस्त्रीणां गृहकार्यविमुखत्वमनुचितमेवेति सखी प्रति सूच्यते । छायायां छन्दोनुरोधेन कर्मवाच्यस्य कर्तृवाच्येन विपरिणमनं सह्यम् । दयितपदं तु 'दयितत्वेनानुरागदृष्ट्या मलिनीकृतमपि मुखं चन्द्र इवाह्लादयति' इति स्वारस्यं पुष्णाति । सेयमात्मीया स्वा नायिकेति कण्ठाभरणे भोजः (५ परि.)। फूत्कारमरुता वह्नावज्वलति कुप्यन्ती काञ्चित्प्रति स्वाभिलाषमभिव्यजन्कश्चिदाह
रन्धणकम्मणिउणिए मा जूरसु रत्तपाडलसुअन्धम् । मुहमारुअं पिअन्तो धूमाइ सिही ण पजलइ ॥ १४ ॥ [ रन्धनकर्मनिपुणिके मा क्रुध्यस्व रक्तपाटलसुगन्धम् ।
मुखमारुतं पिबन्धूमायते शिखी न प्रज्वलति ॥] रन्धनकर्मनिपुणिके! मा कोपी रक्तपाटलसुगन्धिम् । धूमायते पिबंस्ते मुखमरुतं नो शिखी ज्वलति ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org