________________
१ शतकम् ]
संस्कृतगाथासप्तशती ।
मानस्रुट्यतीति तात्पर्यम् । अत एव यावदन्यत्र दयितस्य प्रेमानुबन्धो न भवति तावदेव मानं विहाय तमेवानुवर्तस्वेति सखीं प्रति सूच्यते । एवं त्वदासक्तचित्ता विरहविधुरेयं मानिनी, तदेनां मनोमालिन्यादर्वागेवाऽनुनयस्वेति कान्तं प्रत्यपि व्यक्त्योऽर्थः ।
गृहीतमानायाः कस्याश्चिदनुनयार्थं चरणपतितस्य भर्तुः पृष्ठमारूढं पुत्रं दृष्ट्वा बन्धविशेषस्मरणेन तस्या हास्योदयोऽभवदिति काचित्सखीं प्रत्याह
<dget
पापडिअस्स पण पुट्ठि पुत्ते समारुहत्तम्मि । दढमण्णुदुण्णिआऍ वि हासो घरिणीऍ पोक्कन्तो ॥ ११ ॥
[ पादपतितस्य पत्युः पृष्ठं पुत्रे समारुहति ।
दृढमन्युनाया अपि हासो गृहिण्या निष्क्रान्तः ॥ ] पादपतितस्य पत्युः संरोहति पृष्ठमग्रतः पुत्रे । निरगाद् गेहिन्या अपि हासो दृढमन्युदूनायाः ॥ ११ ॥
पत्युः स्वामिनः, न तु वल्लभस्येत्यर्थः । पुत्रे समारोहतीत्यनेन पुत्रवत्तया गलितयौचनायामप्यनुरक्त इति ध्वन्यते । गेहिन्या इत्यनेन तस्या एव गृहस्वामिनीत्वात्प्रभावातिशयो द्योत्यते । दृढमन्युनाया इति प्रणामेऽपि कोपोपशमाऽभाववर्णनेन स्वाधीन - पतिकायास्तस्याः सौभाग्यदर्पाद्भर्तृविषयेऽनादरः, पत्युश्च तादृश्यामपि स्नेहातिशयो ध्वन्यते । यद्वा कृतकलहयोर्दम्पत्यो रात्रिवृत्तमनुसंधायाऽऽगता सपत्नी सपत्नीं प्रति तद्वृत्तमाह ।
प्रियविरहकातरया कयाचित्प्रेषिता निसृष्टार्था दूती विपरीतलक्षणया नायकं प्रशंसापूर्वकमुपालभमाना भङ्गया खसखीमरणं च सूचयन्ती आह
सच्चं जाणइ दहुं सरसम्मि जणम्मि जुञ्जए राओ । मरउ ण तुमं भणिस्सं मरणं वि सलाहणिजं से ॥ १२ ॥ [ सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः ।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः ॥ ]
सत्यमवैति द्रष्टुं सदृशि जने युज्यते रागः ।
म्रियतां न भणिष्यामि, श्लाघ्यं बत मरणमप्यस्याः ॥ १२ ॥ विपरीतलक्षणया “सा सत्यं द्रष्टुं जानाति, सदृशे जने रागो युज्यते” इत्यनेन त्वद्गतचित्तायास्तस्या अनुरागातिशयमपरिजानति अत एव असदृशे निःस्नेहे वत्स - दृशे जने तस्या अनुरागो न युज्यते, अत एव न सा मौग्ध्यात्प्रेमान्धतया वा द्रष्टुं जानाति । ततश्च परिणाममबुद्धैव यत्र कुत्रचित्प्रीतिमादधती प्रत्यहं प्रतप्यमाना सा स्वकर्मणैव प्रियतामित्येव वरम्, परं न त्वां तज्जीवनाय भणिष्यामीत्यर्थः । एवं च यदि स्त्रीवधपातकं नाऽऽकाङ्क्षसि तर्हि त्वद्गतचित्ता सा त्वरितमेव जीवनीयेति नायकं प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org