________________
काव्यमाला |
एव पूर्व यथा तिलक्षेत्रं संकेतस्थलमासीत्तथा तदिदमिति भावः । केचित्तु 'तिलक्षेत्रपद्मसरसोरुभयोरप्यगुप्तत्वेन संकेतस्थानान्तराऽभावाद्गृहमेव संकेतस्थानमिति ध्वनिः ' इत्याहुः । अभिसारिकाणां तिलवनाब्जिनीखण्डयोर्बहुमानप्रसिद्धिरिति प्रसने सरस्वती - कण्ठाभरणे सेयमुदाहृता ।
कस्याश्चित्केनचित्सह शालिक्षेत्रं संकेतस्थलमासीत् । ततः पक्त्रेषु शालिषु तद्भङ्गं ट्वा रुदतीं तामुद्दिश्य संकेतस्थानान्तरं श्रावयन्ती सखी आहकिं रुअसि ओणअमुही धवलाअन्तेसु सालिछेत्तेसु । हरिआलमण्डिअमुही णडि व्व सणवाडिआ जाओ ॥ ९ ॥
[ किं रोदिष्यवनतमुखी धवलायमानेषु शालि क्षेत्रेषु । हरितालमण्डितमुखी नटीव शणवाटिका जाता ॥ ] किं रोदिषि नतवदना शालिक्षेत्रेषु धवलितेष्वेषु । हरितालमण्डितमुखी नटीव शणवाटिका जाता ॥ ९ ॥ हरितालेन धातुविशेषेण मण्डितमुखी नटीव । शणवाटिका तु पीतकुसुम स्तबकनिकरमण्डितमौलि-शणतरुनिवहनिरन्तरतया हरितालमण्डितमुखीवेत्युपमा । अथवा हरीणां मर्कटानां जालेन ( आलेन ) मण्डितं मुखं प्रवेशमार्गो यस्या इति शणवाटिकाया निर्जनत्वेन संकेतस्थलं तदिति सूचितम् । मण्डितमुखीत्यनेन यथा शणवाटिका मण्डितमुखी, तथा त्वमपि संकेतस्थलनियमनेन प्रसन्नहृदया कृतमण्डना शृङ्गारनाट्यमाचरेति नायिकां प्रति सखी ध्वनयति । 'नतवदने' त्यनेन मुखमानतं कृत्वा किं तिष्टसि, पश्य मे इङ्गितानीति उन्मुखतासम्पादनं सूच्यते । अथ वा शालिक्षेत्र पाकस्य हर्ष स्थानत्वेऽपि रोदनेन लक्षितशालिक्षेत्रसंकेतस्थला कापि परिहासशीलया कयाचिदेवमुपहस्यते ।
कलहान्तरितां नायिकां कान्तानुवर्तनशीलां कर्तुं सखी आह
सहि ईरिसि व्वि गई मा रुव्वसु तिरिअवलिअमुहअन्दम् । एआएँ बालबालुङ्कितन्तुकुडिलाणं पेम्माणम् ॥ १० ॥ [ सखि ईदृश्येव गतिर्मा रोदीस्तिर्यग्वलितमुखचन्द्रम् | एतेषां बालकर्कटीतन्तुकुटिलानां प्रेम्णाम् ॥ ]
ईदृश्येव गतिः सखि तिर्यग्विवलितमुखेन्दु मा रोदीः । प्रेम्णामेतेषां शिशुकर्कटिकातन्तुकुटिलानाम् ॥ १० ॥
सखीत्वेन निर्व्याजं शिक्षणा ! नवकर्कटिकातन्तु कुटिलानामेतेषां प्रेम्णामी - दृश्येव गतिः, अर्थात् संनिहितमेवानुवर्तन्ते । वेष्टितमेव वेष्टयन्ति । 'शिशुपदेन अतिनवीनतया मार्दवाऽतिशयान्मनागाकर्षणेनापि त्रुट्यन्तीति शीघ्रमनुनयः - सूच्यते । कर्कटिकातन्तुरतिमृदुलो भवति ततश्च यत्र स संसज्यते ततोऽन्यत्र संयोज्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org