________________
१ शतकम् ]
संस्कृतगाथासप्तशती ।
वसन्तसमये प्रवासोन्मुखं नायकं प्रति तत्प्रस्थानमाक्षिपन्ती नायिकासखी समभिधत्ते
ताविजन्ति असोएहिं लडहवणिआओं दइअविरहम्मि | किं सहइ कोवि कस्स वि पाअपहारं पहुप्पन्तो ॥ ७ ॥ [ ताप्यन्ते अशोकैर्विदग्धवनिता दयितविरहे ।
किं सहते कोsपि कस्यापि पादप्रहारं प्रभवन् ॥ ] दयितविरहेऽप्यशोकै विदग्धवनिताः प्रताप्यन्ते ।
कस्यापि कोऽपि सहते प्रभवन् पादप्रहारं किम् ? ॥ ७ ॥
अशोकैरननुभूतशोकतया परपीडाऽनभिज्ञैः । दयितविरहेsपि प्राणप्रियवियुक्ततया दयावसरेsपि विदग्धवनिताः दयितसमागम वियोगानुभवशालिन्यः प्रकर्षेण ताप्यन्ते । यतः प्रभवन् अवसरोपलब्ध्या समर्थो भवन् कोऽपि कस्यापि पादप्रहारं किं सहते ? अपि तु नेत्यर्थः । कान्तसन्निधौ तु संतापसामर्थ्याभावाद्दयितविरहेऽवसरमुपलभमानैः प्रताप्यन्ते इति भावः । कोऽपि कस्यापीत्यनेन, असंम्बन्धिनः कस्यापि, कोपि सम्बन्धविशेषरहितः किं पादप्रहारं सहते ? वरवर्णिनीचरणताडनरूपं दोहदं त्वयैव कारितेयं मत्सखी तव विरहे लब्धाऽवसरैः सानुशयैरशोकैः प्रताप्यमाना संशयितजीविता स्यादिति भावः । वनितासु विदग्धविशेषणेन 'याः किल प्रियैकचित्ता दक्षिणा भवन्ति ता एव विरहविकलतामधिकमनुभवन्ति, ततश्च तस्या वैदग्ध्यं न त्वया दुःखकारणं करणीयमिति प्रवासप्रतिषेधो ध्वन्यते । प्रोषितपतिकायाः सख्या तत्कान्तं प्रति लिखिता विरहगाथेयमिति कश्चित् ।
कस्याश्चित्केनचित्कामुकेन सह तिलवाटिका संकेतस्थानं नियतमासीत् । ततः पक्केषु तिलेषु संकेतस्थानान्तरं जारं प्रति श्रावयन्ती श्वश्रूं प्रत्याश्चर्यकथनव्याजेनाऽऽह - अत्ता तह रमणि अक्षं गामस्स मण्डणीहूअम् । लुअतिलवा डिसरिच्छं सिसिरेण कथं भिसिणिसण्डम् ॥ ८ ॥ [ श्वश्रु तथा रमणीयमस्माकं ग्रामस्य मण्डनी भूतम् । लून तिलवाटीसदृशं शिशिरेण कृतं बिसिनीषण्डम् ॥ ] रमणीयं श्वश्रु तथाऽस्माकं ग्रामस्य मण्डनीभूतम् । लूनतिलवाटसदृशं बिसिनीखण्डं कृतं हि शिशिरेण ॥ ८ ॥ 'श्वश्रु' इति सम्बोध्यस्य मान्यतया निर्मायं निवेदनार्हत्वाद्वक्तव्यस्य सत्यत्वं सूच्यते । पूर्वमस्माकं ग्रामस्य मण्डनस्थानीयं रमणीयं कमलखण्डं शिशिरेण हिमदग्धपल्लवतया नालमात्रशेषत्वाहून तिलकोषेण तिलक्षेत्रेण समं कृतम् । पूर्वं हि पत्राद्याहरणार्थं जनानां तत्र सञ्चारोऽभूदिदानीं तु नेदमपि इति पद्मसरसो विजनत्वं ध्वन्यते । अत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org