________________
काव्यमाला ।
[तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
यावन्न कुवलयदलसच्छायानि मुकुलीभवन्ति नयनानि ॥ रतिसमये महिलानां राजन्ते विभ्रमास्तावत् ।
कुवलयदलसदृशानि न यावन्मुकुलीभवन्ति नयनानि ॥५॥ रतिसमये महिलानामुत्तमस्त्रीणां न तु रमणीनाम् , तासां हि केवलं रमणमेव प्रयो. जनमिति भावः । विभ्रमास्तावदेव राजन्ते पुरुषाणां मनोहारिणो भवन्ति यावदतिसुखसंमोहिततया नयनानि मुकुलितानि न भवन्ति । अतस्तादृशं नायकमुपलभ्य रतिसुखाऽप्राप्तावपि प्राप्तरतिसुखयेव त्यक्तविभ्रमया अत एव मुकुलीकृतनेत्रया त्वया भाव्यमिति । अत्र प्राक्तनटीकाकृद्गङ्गाधरभट्टः “पुरुषाणां नयनानि यावन् मुकुलितानि न भवन्ति" इति व्याचख्यौ । तदेतन्न रमणीयमिव । कामशास्त्रे सुरतान्ते नारीणां सुरतसुखनिमीलिताक्षत्वमुपवर्ण्यते न पुंसाम् । तथा च अनझरङ्गे-“नारी विसृष्टकुसुमेषुजला रतान्ते नित्यं करोति बहुवल्गनरोदने च । कैवल्यमेति मुकुलीकृतचारुनेत्रा शक्नोति नो किमपि सोढुमतिप्रयासा ॥" यद्वा विपरीतरतप्रसङ्गे सदर्पा कांचिदुद्दिश्य कस्यचिदुक्तिरियम् । विभ्रमास्तावदेव हारिणो भवन्ति यावत्किल पुरुषायितपरिश्रमखेदालसतया नयनानि न मुकुलन्तीति । सरस्वतीकण्ठाभरणे-रसाश्रितेषु भावेषूदाहृता सेयं गाथा । (परि. ५)।
खविलासोपवनरोपितस्य फलपुष्पवन्ध्यस्य कुरबकतरोर्दोहदमन्वेषयन्तं नायकं प्रति बहोः कालादलब्धनायकसमागमाया नायिकायाः सखी वदति
णोहलिअमप्पणो किं ण मग्गसे मग्गसे कुरवअस्स । एअंतुह सुहग हसइ वलिआणणपङ्कअं जाआ ॥६॥ [ दोहदमात्मनः किं न मृगयसे मृगयसे कुरबकस्य ।
एवं तव सुभग हसति वलिताननपङ्कजं जाया ॥] किं नात्मनो मृगयसे विमृगयसे दोहदं कुरबकस्य ।
सुभगैवं तव जाया वलिताननपङ्कजं हसति ॥ ६॥ सुभगमात्मानं मन्यमानस्त्वं मदालिङ्गनरूपं कुरवकस्य दोहदं प्रार्थयसे नात्मनः । एवं तव जाया संबन्धानुरोधेन भार्यामात्रं न तु प्रेयसी, वैमुख्याभिव्यञ्जनाय परावर्तितमुखपङ्कजं हसतीति भावः । किंच 'जाया' पदेन 'सा सन्ततिजननोचिता' इति साकूतमुपालम्भो ध्वन्यते । स्त्रीणामालिङ्गनेन कुरबकविकासः कविसमयसिद्धः । यद्वा 'णोहलिअं' नवफलोद्गममित्यर्थः । मदालिङ्गनेन कुरबकस्य फलोद्गमं प्रार्थयसे, आत्मनः पुत्ररूपं फलं किमिति न प्रार्थयसे । अहो तव जाध्यमिति भावः ।
१ दोहलिअम् , पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org