________________
१ शतकम् ] संस्कृतगाथासप्तशती।
सप्त शतकानि कोटेमध्ये कविवत्सलेन हालेन।
गाथानां रचितानि हि नानालङ्कारललितानाम् ॥३॥ कविगाथारत्नकोषनिर्माणेन तत्कीर्तिस्थिरीकरणात्कवीनां वत्सलेन हालेन शालिवाहनेन नानालङ्कारललितानां गाथानां कोटेमध्ये (मज्झआरो मध्यः) सप्तशतकानि विरचितानि संगृहीतानीति यावत् । गाथालक्षणं तु पिङ्गले-'पढमं बारह मत्ता बीए अछारएहि संजुत्ता । जह पढमं तह तीअं दहपञ्चबिहूसिआ गाहा।' संस्कृते तु बन्धानुरोधेनागीत्यन्यतरच्छन्दसा साऽवबोद्धव्या ।
पल्लवगहनतया दिनेऽपि दुष्प्रेक्ष्ये कमलिनीपुलिने कयोश्चित्संकेतसंघटनाऽऽसीत् । तत्राऽन्याऽऽसक्ततयाऽनागत्यैव-'दत्तसंकेता त्वं नागता, अहं त्वागतः' इति वादिनं कामुकं प्रति काचिदाह
उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहइ बलाआ । णिम्मलमरगअभाअणपरिहिआ संखसुत्ति व्व ॥ ४ ॥ [पश्य निश्चलनिःस्पन्दा बिसिनीपत्रे राजते बलाका ।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥] बिसिनीपत्रे निश्चलनिःस्पन्दा पश्य राजति बलाका।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥४॥ जनसंचाराभावान्निर्भयतया निश्चला चाऽसौ निःस्पन्दा च बलाका ( बकस्त्री), निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव शङ्खघटितं शुक्त्याकारं चन्दनादिनिधानपात्रमिव राजते इति त्वं पश्य । अत्राऽचेतनोपमया लेशतोऽपि संचलनाऽभावः, तेन च नितान्तं निर्जनत्वं गम्यते । अनेन च व्यङ्ग्यार्थेन-'मिथ्या वदसि । न त्वमत्राऽऽगतोऽभूः' इत्यर्थो व्यज्यते । चलनं शरीरक्रिया स्थानान्तरप्रापिका, स्पन्दस्त्ववयवक्रिया स्थानान्तराऽप्रापिका । एवं च पौनरुक्त्यं नाऽऽश कनीयम् । यद्वा निःस्पन्दत्वेनाश्वस्तत्वं तेन च जनरहितत्वं, तेन च संकेतस्थानमिदमिति कयाचित्कंचित्प्रति व्यज्यते । अथवा-'कल्लोलिनीकाननकन्दरादौ दुःखाश्रये चाऽर्पितचित्तवृत्तिः। मृदुक्रमारम्भमभिनधैर्यः श्लथोऽपि दीर्घ रमते रतेषु ।' इति कामशास्त्राद्दीर्घरमणार्थं नायकस्याऽन्यचित्ततां कुर्वती काचिदाह । निश्चलोऽचलस्तद्वन्निःस्पन्दा वेगविधारणप्रयत्नवशात् । निश्चलेति पुरुषसंबोधनं वा । तथा च यदि वेगविधारणपरोऽसि तदेनां बलाकां पश्यन्नन्यमनस्कतया चिरं रमस्वेति भावः, इति गङ्गाधरभट्टः । - रतावपरितोषात्सुरतावसानोचितकृत्रिमोपचारशून्यतया रतान्तेऽपि कटाक्षभुजालि. अनादिविभ्रमं कुर्वती नायिका काचित्सखी शिक्षयति
तावचिअ रइसमए महिलाणं बिभमा विराअन्ति । जाव ण कुवलअदलसेछआइँ मउलेन्ति णअणाई ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org