________________
काव्यमाला।
म्बुरुहम् ।' इत्यादि भगवतः सन्ध्यासलिलाञ्जलिमुपस्तुवन् समाप्तिमङ्गलं सूचयिष्यति । किं वा-आरम्भे प्रातःसन्ध्याजलिवर्णनेन अवसाने च सायंसन्ध्याञ्जलिस्तवनेन सुनिपुणमयं ग्रन्थकारः प्रारम्भावसाने सूचयतीति स्यादेव सुधियां सुविदितमित्यलम् । “यद्वा मानिन्याः प्रणयरोषमसहमानं नायकं प्रति दूत्या उक्तिरियम्-'अनभिज्ञोऽसि प्रेमव्यवहाराणाम् , यस्त्वं प्रियाप्रणयरोषलक्षणे हर्षस्थाने कुप्यसि । न पश्यसि किं देव्याः सन्ध्यासलिलाञ्जलावपि प्रणयरोषम्" इति गङ्गाधरटीका । गाथाकोषनिर्माणहेतुमवतारयति
अमिअं पाउअकव्वं पढिउं सोउं अ जे ण आणन्ति । कामस्स तत्ततन्ति कुणन्ति ते कहँ ण लजन्ति ॥ २॥ [अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च येन जानन्ति ।
कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लजन्ते ॥] अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति ।
कामस्य तत्त्वचिन्तां कुर्वन्तस्ते कथं न लजन्ते ॥२॥ स्त्रीबालादिसकलसुखोचार्यवर्णमयत्वादखिलानन्दनम् , शृङ्गाररसनिर्भरत्वेनाऽऽह्लादजनकत्वादमृतमिव सकलकामनाविषयं प्राकृतकाव्यमवसरे पठितुम् , अपरेण पठितं च श्रोतुं सम्यग् बोद्धं ये न जानन्ति, कामस्य तत्त्वचिन्तां (कामतन्त्रचिन्तां वा) कुर्वन्तस्ते जनाः कथं न लजन्ते । प्राकृतपदाङ्कानुसरणमेव चेत्काम्यं तर्हि-'कुर्वन्ति च ते' पाव्यम् । कामशास्त्रव्युत्पत्तिविधुरं विदग्धनायिका प्राकृतकाव्यस्तुतिव्याजेन शिक्षयति वा । साररूपतया खग्रन्थस्योपादेयतां सूचयति
सत्त सताई कइवच्छलेण कोडीअ मज्झआरम्मि । हालेण विरइआई सालङ्काराण गाहाणम् ॥ ३॥ [ सप्त शतानि कविवत्सलेन कोटेमध्ये । हालेन विरचितानि सालंकाराणां गाथानाम् ॥]
१'कहं' इति पदे 'हं' इति गुर्वक्षरस्याऽपि छन्दोभङ्गभयाल्लध्वक्षरवदुच्चारणं विधेयम्, अत्र प्रमाणं प्राकृतपिङ्गले यथा-'जइ दीहो वि अ वण्णो लहु जीहा पढइ होइ सो वि लहु । वण्णो वि तुरिअपढिओ दोतिण्णि वि एक जाणेहु ।' इति । 'यदि दीर्घमपि वर्ण लधुं कृत्वा जिह्वा पठति तदा सोपि वर्णो लघुरेव भवति । द्वौ वर्णौ त्रयो वा वर्णास्त्वरितपठितास्तानेक एव वर्ण इति जानीत ।' इत्येतट्टीका । एवं 'इ' 'हिं' इति वर्णद्वयम् , 'ए' 'ऊ' इति वर्णद्वयं शुद्धम् । जवर्ण(अन्यवर्ण)-मिलितं वा विकल्पेन लघु भवति । तथा रकारयुक्ते हकारयुक्ते वा व्यञ्जने परे पूर्वाक्षरं विकल्पेन लधु भवति, इत्यादिनियमाः सोदाहरणाः प्राकृतपिङ्गले द्रष्टव्याः । अस्माभिरप्यत्र यस्य गुर्वक्षरस्य लध्वक्षरवदुच्चारणं भवति तदुपरि एतादृशमर्धचन्द्राकारं चिह्नं स्थापित मस्ति । इति काव्यमालासम्पादकस्वर्गीयमहामहोपाध्याय श्रीदुर्गाप्रसादानां टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org