________________
हालोपनामकमहाकविश्रीसातवाहनसंकलित
प्राकृतगाथासप्तशत्याश्छायारूपा (भदृश्रीमथुरानाथशर्मसंग्रथिता)
संस्कृतगाथासप्तशती । निजनिर्मितया व्यङ्ग्यसर्वकषाख्यव्याख्यया संवलिता।
गणनाथे नैतिमयता गुम्फितगाथेन मञ्जनाथेन ।
व्यङ्ग्यार्थसारसिद्ध्यै सैषा सर्वङ्कषा क्रियते ॥१॥ तत्र प्रथमं प्रकाशयिष्यमाणगाथारत्नकोषस्य निर्विघ्नपरिसमाप्तिसिद्धये कृतं मङ्गलं श्रोतृजनसुखार्थमुपनिबध्नाति कविः
पसुवइणो रोसारुणपडिमासंकन्तगोरिमुहअन्दम् । गहिअग्घपङ्कअं विअ संझासलिलञ्जलिं णमह ॥१॥ [पशुपते रोषारुणप्रतिमासंक्रान्तगौरीमुखचन्द्रम् ।
गृहीतार्घपङ्कजमिव संध्यासलिलाञ्जलिं नमत ॥] प्रमथपते रोषारुणगौरीमुखचन्द्रसञ्चरत्प्रतिमम् ।
कलिताऽर्घसरसिरुहमिव सन्ध्यासलिलाञ्जलिं नमत ॥१॥ निशि तथा प्रकटितप्रणयपरिपाकचेष्टितोऽपि प्रातरेव कथमयं मां विहायाऽन्यां ध्यायतीति रोषेण अरुणं यद्गौरीमुखं तदेव चन्द्रः तस्य संचरन्ती संक्राम्यन्ती प्रतिमा प्रतिबिम्बो यत्र, अत एव कलितार्घसरसिरुहमिव रक्तमुखप्रतिबिम्बव्याजेन गृहीतार्घप
जमिव प्रमथपतेः शिवस्य सन्ध्यासलिलाञ्जलिं नमत । प्राकृते पूर्वनिपातस्याऽनियततया 'संक्रान्तप्रतिमम्' इति स्थाने प्रतिमासंक्रान्तमिति संघटितम् । अथवा प्रतिमया संक्रान्तमिति योजनीयं स्यात् । मत्कृतच्छायायां तु न तादृशक्लेशः । पशुपतेरित्यस्य स्थाने प्रमथपतेरिति तु-'सर्वेषां प्रमथानां सविध एव मामयमुपेक्षते' इति प्रणयकोपातिशयं व्यनक्ति । पङ्कजपदस्यापि अर्घाञ्जलौ न वारस्यमिति सरसिरुहपदेन परिवर्तितं तद् द्युतिमेव पुष्णाति । शशधरकलामौलेः प्रातःसन्ध्यासलिलाञ्जलिवर्णनविच्छित्तिर्ग्रन्थारम्भमङ्गलमुमादेव्याः प्रणयकोपप्रकटनेन वर्णनीयस्य शृङ्गाररसनिर्भरतां चाऽभिव्यनक्ति । अत एवाऽवसानेऽपि 'सन्ध्योपात्तजलाञ्जलिबिम्बितगौरीमुखा
१ नतिं प्रणामम् , अयता स्वीकुर्वता, प्रणामं कुर्वतेत्यर्थः । २ संस्कृते निबद्धाः गाथाः येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org