________________
१०
काव्यमाला |
'दे' शब्दः सानुनय संबोधने । अमृतमयेत्यनेन जगज्जीवनहेतुत्वं शिशिरसुखत्वं च, गगनशेखरेत्यनेन उन्नततया अखिललोकलोचनानन्दकारित्वम्, रजनीमुखतिलकेत्यनेनाऽबलाजनपक्षपातित्वम्, तातेत्यनेन सदयत्वम्, चन्द्रेत्यनेनाह्लादकत्वं चाभिव्यज्यते । एवंविधोपि त्वं मां निर्दयं दहसि । प्रवासिनं मद्दयितं तु अमृतशिशिरैः करैः स्पृशसि, अत एव नाऽद्याप्यायाति । ततो मामपि तैरेव करैः स्पृश, येन विरहवैधुर्यं सहेयेति भावः । प्रेमपुष्टिषु, प्रलापः सोयमित्युदाहृतं कण्ठाभरणे भोजेन ( ५ परि. ) ।
सखि मुञ्चेदानीं विषादम् । आगत एवाऽद्य श्वो वा तव वल्लभः । किंतु आगतमात्र एवासौ न त्वयाभिनन्दनीयः, अपि तु मानोपालम्भादिभिः सुचिरं परिखेद्य, ततोये प्रवास निवृत्तिं स्वीकार्य ततोसौ परिरम्भणादिभिः संभावनीय इति सखीभिः शिक्षिता प्रियतमोत्कण्ठिता प्रोषितपतिकाह
एह सोवि पउत्थो अहं अ कुप्पेज सोवि अणुणेज | इअ कस्स वि फलs मणोरहाणं माला पिअअमम्मि ॥ १७ ॥ [ एष्यति सोऽपि प्रोषितो अहं च कुपिष्यामि सोऽप्यनुनेष्यति । इति कस्या अपि फलति मनोरथानां माला प्रियतमे ॥ ] सोऽप्येभ्यति प्रवासी, कोपिष्याम्यहमथाऽनुनेष्यति सः ।
इति कस्यापि फलति किल मनोरथानां प्रिये माला ॥ १७ ॥
प्रोषितः स एष्यति, निरनुक्रोशे बहोः कालादनन्तरमागते तस्मिन्नुत्कण्ठिता तदागमनमात्रसुनिताऽहं कोपिष्यामि, कोपोपि तावत्कालं स्थास्यति यावत्स मामनुनेष्यति, इति किल पूर्वतः स्थिरीकृता मनोरथानां माला कस्यापि भाग्यशालिन एव प्रियविषये फलति न मत्सदृश्याः, या किल हमात्रे पतत्येव सर्वात्मना कान्तवशंवदा मानेप्यसमर्था । एवं च इयच्चिरं प्रियतमाऽऽगमने या मानं दधति कठोरचित्तास्ता एव धन्या भवन्तु नाहमित्यात्मनोऽनुरागातिशयो ध्वनितः । गङ्गाधर भट्टस्तु "कान्तस्य निरनुक्रोशत्वात्, आत्मनश्च कान्तावधीरणभीरुत्वात् इयच्चिरं प्रेमानुबन्धस्या संभाव्यमानत्वाच्च सर्वमेतन्मनोरथमात्रमित्याशयेनाह - इतीति । कस्यापि धन्यजनुष एतत्सम्पद्यते । मम तु मन्दभाग्यायाः कुत एतदिति भावः ।" इति वदन् कान्ताऽऽगमनादिकं सर्वमेव मनोरथमात्रं व्याचख्यौ । ' समारुहति' 'कुपिष्यामि' इत्यादिव्याकृतिविरोधास्तु कदाचन लेखकमुद्रकयोरेव प्रमादो भवेत् । प्रवासे, आलिङ्गनादीनां कालहरणमित्युदाहृतं भोजेन ।
."
कथमेषु दिनेषु दुर्बलोसीति मित्रेण पृष्टस्य प्रियतमस्य बहुमहिलाऽऽकर्षणं काचित्सेर्थ्योपालम्भमन्यापदेशेनाह
दुग्गअकुटुम्बअट्ठी कहं णु मऍ धोइएण सोढव्वा । दसिओसरन्तसलिलेण उअह रुण्णं व पडएण ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org