SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । ६७ रिव सुभाषितैः ॥' इति हर्षचरितारम्भे बाणः । कोषश्चायमेव गाथासंग्रहरूपो बाणस्य विवक्षितः. 'जगत्यां प्रथिता गाथा सातवाहनभूभुजा । व्यधुर्धतेस्तु विस्तारमहो चित्रपरम्परा ॥' अयं श्लोकः केषुचित्सूक्तिमुक्तावलीपुस्तकेषु राजशेखरनाम्ना समुद्धृतो दृश्यते. 'सच्चं भण गोदावरि पुव्वसमुद्देण साहियासन्ती । सालाहणकुलसरिसं जइ ते कूले कुलं अस्थि ॥ उत्तरओ हिमवन्तो दाहिणओ सालवाहणो राआ। समभारभरकन्ता तेण न पल्लत्थए पुहवी ॥ एतद्गाथाद्वयं राजशेखरसूरिप्रणीते प्रबन्धकोषे सातवाहनप्रबन्धे समुपलभ्यते. शतानन्दसूनुमहाकविश्रीमदभिनन्दप्रणीतरामचरिताख्यमहाकाव्यस्य सप्तमसर्गान्ते पञ्चदशसर्गान्ते च 'नमः श्रीहारवर्षाय येन हालादनन्तरम् । खकोषः कविकोषाणामाविर्भावाय संभृतः ॥' अयं श्लोकः, द्वात्रिंशत्सर्गसमाप्तौ च 'हालेनोत्तमपूजया कविवृषः श्रीपालितो लालितः ख्याति कामपि कालिदासकवयो नीताः शकारातिना । श्रीहर्षी विततार गद्यकवये बाणाय वाणीफलं सद्यः सक्रिययाभिनन्दमपि च श्रीहारवर्षोऽग्रहीत् ॥' अयं श्लोकः समुपलभ्यते. एतेन श्रीपालितकविनैव धनलिप्सया खप्रभोर्हालस्य नाम्नायं गाथासप्तशतकग्रन्थः संगृहीतः स्यादित्यप्यनुमीयते. सातवाहनस्यैव हालः, शालः, सालवाहनः, एते पर्यायाः सन्तीति हैमकोषादिषु सुव्यक्तमेव. संग्रहरूपेऽस्मिन्प्रन्थे काश्चन गाथा हालप्रणीता अपि सन्ति. यतः क्वचित्पुस्तके चतुर्थगाथामारभ्य द्वादशगाथापर्यन्तं प्रतिगाथाग्रे तत्तद्गाथाकर्तृणां 'हालस्स (हालस्य), वोडिसस्स, चुल्लोहस्स, मअरन्दसेणस्स (मकरन्दसेनस्य), अमरराअस्स (अमरराजस्य), कुमारिलस्स (कुमारिलस्य), सिरिराअस्स (श्रीराजस्य), भीमस्सामिणो (भीमस्वामिनः), हालस्स, एतानि षष्ठ्यन्तानि नामानि समुपलभ्यन्ते. अग्रे च लेखकप्रमादेन गलितानीति १. 'शालो हाले मत्स्यभेदे' इति, 'हालः सातवाहनपार्थिवे' इति च हैमानेकार्थः. “शलति शालः । श्यति वा । 'श्यामाश्या-' इति लः । हालः सातवाहननृपः। तत्र यथा--"जज्ञे शालमहीपालः प्रतिष्ठानपुरे पुरा।" इति "यथा-दिवं गते हालवसुंधराधिपे।" इति च तट्टीका अनेकार्थकैरवाकरकौमुदी. 'हालः स्यात्सातवाहन' इति हैमनाममाला. 'हलत्यरातिहृदयं हालः । ज्वलादित्वात् णः। सातं दत्तसुखं वाहनमस्य सातवाहनः । सालवाहनोऽपि ।' इति तट्टीका अभिधानचिन्ता. मणिः. 'सालाहणम्मि हालो' इति देशीनाममाला. हालः सातवाहनः' इति तट्टीका. 'शालो हालनृपेऽपि च' इति त्रिकाण्डशेषानेकार्थः. कथासरित्सागरे तु-सातेन यस्मादूढोऽभूत्तस्मात्तं सातवाहनम् । नाम्ना चकार कालेन राज्ये चैनं न्यवेशयत् ।। इति सातवाहनपदस्य निरुक्तिरुतास्ति. सातो नाम कश्चन यक्षः कुबेरशापेन सिंहतां प्राप्तः. तेनायं स्वपृष्ठेऽधिरोपित इति कथापि तत्रैवास्ति. वात्स्यायनीयकामसूत्रे तु 'शातवाहन' इति तालव्यादिः समुपलभ्यते. वायु-मात्स्यविष्णुपुराणेषु भागवते च हालमहीपतेर्नाम समुपलभ्यत इति विद्वदरभाण्डारकरोपाह-रामकृष्णशर्मभिः प्रणीते दक्षिणप्राचीनेतिहासनाम्नि पुस्तके २५ पृष्ठे विलोकनीयम्. शातकर्णेः सातवाहनस्य विस्तरेण वर्णनं च तत एवावधार्यम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy