________________
सातवाहनः।
दीपकर्णिसूनुः सातवाहनो नाम कश्चन विद्वान्महीपतिः प्रतिष्ठानपुरे बभूव, यत्सभां बृहत्कथाप्रणेतृगुणाढ्य-कालापव्याकरणकर्तृशर्ववर्मप्रभृतयो भूयांसो विद्वांसो मण्डयांचक्रुरिति कथासरित्सागरषष्ठतरङ्गस्थितकथातः प्रतीयते. 'सोऽहं दरिद्रो वित्तार्थी प्रयातो दक्षिणापथम् । प्राप्तः पुरं प्रतिष्ठानं नरसिंहस्य भूपतेः ॥ (३८।१०८) इत्यादिकथासरित्सागरस्थश्लोकेभ्य एव दक्षिणापथे प्रतिष्ठानपुरमस्तीत्यप्यवगम्यते. तच्चाधुना 'पैठण' नाम्ना प्रसिद्धमस्ति. 'कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवी मलयवती [जघान]' इति वात्स्यायनप्रणीतकामसूत्रस्य द्वादशाध्यायोपान्ते समुपलभ्यते. डॉक्टपीटर्सनेन बुन्दीनगराधीशपुस्तकालयादानीते गाथासप्तशतीपुस्तके 'राएण विरइआए कुन्तलजणवअइणेण हालेण । सत्तसई अ समत्तं सत्तममज्झास एअम् ॥ इति सप्तमं शतकम् । इति श्रीमत्कुन्तलजनपदेश्वर-प्रतिष्ठानपत्तनाधीश-शतकर्णोपनामक-द्वीपि(दीप)कर्णात्मज-मलयवतीप्राणप्रिय-कालापप्रवर्तकशर्ववर्मधीसख-मलय. वत्युपदेशपण्डितीभूत-त्यक्तभाषात्रयखीकृतपैशाचिकपण्डितराजगुणाढ्यनिर्मितभस्मीभवढहत्कथावशिष्टसप्तमांशावलोकनप्राकृतादिवाक्पञ्चक (2)प्रीत-कविवत्सल-हालाद्युपनामक-श्रीसातवाहननरेन्द्रनिर्मिता विविधान्योक्तिमयप्राकृतगीर्गुम्फिता शुचिरसप्रधाना काव्योत्तमा सप्तशत्यवसानमगात् ॥' एवं समाप्तिश्च वर्तते. एतद्विलोकनेन वात्स्यायनस्मृतः कथासरित्सागरवर्णितश्च सातवाहन एक एव. तेनैवेयं गाथासप्तशती प्राचीनग्रन्थेभ्यः संकलिता. स च ख्रिस्ताब्दस्य प्रथमशतक आसीदित्याधुनिकानां विद्वद्वराणां निश्चयः. युक्तं चैतत्. यतः शकप्रवर्तकः शालिवाहन एव सातवाहन इति निर्विवादैव प्रेथमशतके तस्य स्थितिः अयं गाथासंग्रहकर्ता सातवाहनोऽन्यः प्रत्नकविभिरप्यभिष्टुतः यथा-'अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोषं रन
१. राजशेखरसूरिप्रणीते प्रबन्धकोषे सातवाहनप्रबन्धे 'अधुना तु दक्षिणदेशस्थितं प्रतिष्ठानपुरं क्षुल्लकग्रामतुल्यं वर्तते । इत्यस्ति. २. डॉक्टरीटर्सनस्य तृतीये रिपोर्टाव्यपुस्तके ३४९ पृष्ठे द्रष्टव्यम्, ३. 'कामगिरि समारभ्य द्वारकान्तं महेश्वरि । श्रीकुन्तलाभिधो देशो हूणदेशं शृणु प्रिये ।।' इति शक्तिसंगमतत्रम्. तस्मिन्समये च गुर्जरदेशेऽपि सातवाहनस्यैव प्रभुत्वमासीत्, यतस्तेन संतुष्टेन स्वसचिवाय शर्ववर्मणे भरुकच्छ(भरोच)देशप्रभुत्वं दत्तमिति 'राजाहरत्ननिचयैरथ शर्ववर्मा तेना. र्चितो गुरुरिति प्रणतेन राज्ञा । स्वामी कृतश्च विषये भरुकच्छनाम्नि कूलोपकण्ठविनिवेशिनि नर्मदायाः ॥' अस्मात्कथासरित्सागरषष्ठतरङ्गसमाप्तिस्थश्लोकाज्ज्ञायते. ४. अनन्तराज-कलशदेवहर्षदेवादयः कश्मीरमहीपाला अपि सातवाहनकुलोत्पन्ना आसन्निति कलणराजतरङ्गिणीतः कथासरित्सागरसमाप्तिस्थितप्रशस्तितश्च प्रतीयते. सोऽपि सातवाहनः कदाचिदयमेव स्यात्. ५. प्रबन्ध कोषे तु 'महावीरस्वामिनि मोक्षं गते ४७० वर्षानन्तरं विक्रमादित्यः । तत्समकालीन एवायं सातवाहनः । कालिकाचार्यसमकालीनोऽपि कश्चन सातवाहनः, सोऽस्मादर्वाचीनः। इत्यस्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org