________________
भूमिका। निरमीयत । अत्र व्यङ्यार्थप्रकाशनाय यावच्छक्यमधिकाधिक प्रयतितम् । सेयं टीका गङ्गाधरटीकामवलोक्यैव न्यबध्यत । व्याख्यासापेक्षोपि योर्थस्तत्र परित्यक्तः सोऽस्यां पर्यगृह्यत । व्यङ्ग्यार्थस्थले विस्तरेण तत्प्रकाशनचेष्टाऽक्रियत। गुणदोषविवेचका वाचकाः खयमिदमेनामवलोक्य परीक्षिष्यन्ते तत्किं नाम वागारम्भणेन ।
किञ्चेदमपि निवेदनीयमापतितं हतविधेर्दुर्विलासात् यत् 'सतसईसंहार'सर्गात् हिन्दीसाहित्ये सुतरां लब्धप्रतिष्ठेन विहारिसप्तशत्याः संजीवनभाष्यारम्भकेण पं. पद्मसिंहमहोदयेन गाथासप्तशतीं विहारिसप्तशती च मिथस्तुलयता गाथापेक्षया विहारिकृतेर्यः किल समुत्कर्षः साधितस्तस्यात्रालोचना विहिता। टीका रचयता मया सोयं संदर्भो बहोः कालात्पूर्वमेव न्यबध्यत । अस्य कियांश्चनांशो 'माधुरी'नामकहिन्दीमासिकपत्रिकायां प्रकाशितोऽप्यभूत्पूर्वम् । किन्तु सम्प्रति सखेदं शृणोमि यत्साहित्यमार्मिकोसौ पद्मसिंहमहोदयो लोकान्तरं प्रयात इति । हन्त मन्मनसि भूयान्खेदो यदेषा आलोचना तल्लोचनातिथिर्न भूत्वा पुस्तकाकारे संप्रति प्रकाशिता भवतीति । हन्त को वा विधेः प्रभवेत् । - वाराणसेयगवर्नमैण्टसंस्कृतकालेजस्याध्यक्षपदमधितिष्ठतः सुप्रसिद्धप्राच्यसाहित्यमार्मिकस्य एम्. ए. पदमण्डितस्य श्रीगोपीनाथकविराजमहाभागस्य भूयांसमुपकारमधिवहामि यो हि सातवाहनस्य गाथासप्तशत्याश्च परिचयदिक्प्रदर्शनाय पाश्चात्त्यपद्धत्या 'वाङ्मुखम्' [Fore words] निबन्धुमन्वग्रहीत् । मार्मिकाः पाठकमहाभागाः प्राक्संस्करणमुद्रितमुपोद्घातम्, मनिबद्धां भूमिकाम्, तत्र प्रदर्शिता रचनामातृकाः, कविराजमहोदयस्य वाङ्मुखं चैतदादि सर्वामपि सामग्रीमेकत्र संकलय्य सप्तशतीविषये भूयसः परिज्ञातव्यविषयान् तत्तथ्यनिर्णयं च खखमत्या सम्यगुन्नयेयुरिति मनसि भूयस्तरां विश्वसिमि ।
एतद्ग्रन्थस्य संपादने जयपुरराजकीयज्योतिर्यन्त्रशालाप्रधानदैवज्ञेन भूतपूर्वकाव्य. मालासंपादकेन बाल्यसुहृदा पं. श्रीकेदारनाथशर्ममहाभागेन समये समये सुबहु साहाय्यमाचरितमिति हृदयतः कार्तश्यमावहामि । अन्ते च नवसभ्यमहाभागान्प्रति पुनरावेदयामि
निभृतनिषेव्यममृतमयमुपवनमिदमार्यरसिकानाम् । नाऽऽवश्यकप्रवेशाः सुधियः क्षाम्यन्तु तत्सदयम् ॥
आषाढशुक्लद्वितीया ।
सं. १९८९
भट्टश्रीमथुरानाथशास्त्री साहित्याचार्यः Supervisor of Sanskritpathshalas
Jaipur State.
।
१ शृङ्गाराधिक्यदर्शनान्नवरुच्यनुसारं न आवश्यकः प्रवेशो येषां ते । तथा च रुचेर्भेदात्तेषां संमतमत्र नास्तीत्यत्र निभृतोपवने तेषां प्रवेशाधिकारोपि नास्तीत्याशयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org