________________
६४
भूमिका। लोकयोजनमात्रेण न टीकानां कर्तव्यं पूरितं भवति । पूर्व मुद्रिता गङ्गाधरभवृकृता टीका यद्यपि सुमनोहराक्षरगुम्फिता तथापि ध्वन्यर्थान्बहुत्र न सूचयत्यपि । अत्र हि प्रत्येकपदस्य यावढ्यङ्ग्यार्थो न सूच्यते तावन्न गाथाया महत्त्वमवभासितं भवति । गङ्गाधरस्तु दुर्बोधस्थलेषु संक्षिप्तां टिप्पणीमिव वाच्यार्थस्य करोति । कुत्रचित्तु तद्विषयेपि मौनव्रतमवलम्बते । तस्य किश्चिन्मानं निदर्शनमुपस्थापयामि । सप्तमे
सुन्दर यदि कौतुकितोसि सकलतिथिचन्द्रदर्शनसुखानाम् । तन्मोच्यमानकञ्चकमीक्षख मुखं मसृणमस्याः ॥ ७२ अत्र हि 'सखायं प्रति सख्युक्तिः। दूत्या वा नायकं प्रत्युक्तिः' एतावन्मात्री कृपा कृत्वा पलायितवानग्रे गङ्गाधरः। अत्र को वा चमत्कार इति परीक्षारूपेण बहवो मार्मिका अपि पृष्टा आसन्परं न तेपि सहसा वक्तुं प्राभवन्। एवं स्थितौ कियत्यावश्यकता टीकाया इति प्रतीतं भवेत् । अस्यां हि परस्पराश्लिष्टोवीकृतमण्डलायितबाहुलतिक प्रतिलोमक्रमेण कञ्चुकावतारणकाले नायिकाया मुखशोभा सुमधुरमावर्णिता। अत एव कञ्चुकावरणस्य शनैः शनैरपगमे प्रतिपदादिसकलतिथिषूदितस्य चन्द्रस्य कमात्सादृश्यं भवतीति सकलतिथिचन्द्रसदृशत्वं मुखे विचित्रमास्थापितं गाथया । नैतादृशी कल्पना अन्यत्रावलोक्येत । यावदहं स्मरामि सोयमर्थो रामभद्रदीक्षितेनाप्युपनिबद्धः, परमित एवोपजीवितः सः। नायं गाथया अपहृतः, प्राचीनत्वात्तस्याः। अस्तु. एवंस्थलेपि टीकाया मूकता रोचेत कस्मैचित्?
कुत्रचित्स्वयं टीकापि भ्रान्ता भवति । नवकर्मिपामरेण० ७९२ इति गाथायां हलवाहने लग्नः पामरो भक्तहारिणीं दृष्ट्वा क्षुभितचित्ततया योक्त्रस्य 'जोत' इति ख्यातस्य वृषकण्ठावसक्तस्य चर्मपट्टस्य प्रग्रहमात्रे बन्धमात्रे मोक्तव्येपि नासारज्जु मुञ्चतीत्युच्यते। टीकाकृदाह-योक्त्ररूपे प्रग्रहे इति । छायापि भ्रामिका । अत एव सन्देहचिह्नाङ्किता छाया द्विर्मुद्रणीयाऽभवत् ।
आपृच्छन्ति० ७८० इति गाथायां 'खडिएहिं' 'खंडिएहिं' इति भ्रामकमात्रे पाठद्वये 'खनिकैः' इति छाया क्लुप्ता। न च टीकायां तत्संगतिः कृता । इह हि 'खटिक' इति पाठो वास्तवः । स च पशुहिंसकार्थ संगमयन्प्राकृतकोशेष्वप्युपलभ्यते, किन्तु टीकाकृदनापि मौनी । यद्वदति तदपि मूलान्न संगच्छते ।
बधिरान्धाः किल. ७।९५ गाथायां 'मूइल्लओ' इत्यस्य 'मूलकः' इत्यर्थः कृतो यः किल मार्मिकमपि विद्वांसं प्रच्यावयति सत्यादर्थात् । अत्र हि 'मूकः' इत्यर्थो वास्तवे,
यः संगच्छते प्रकरणेन। दृश्यतां धनपालकृतः ‘पाइअलच्छी' 'प्राकृतलक्ष्मी'कोषः । 'आनन्दस्त्वयं यत् टीकाकृत 'मूलकः' इति छायां करोति, परं न तां व्याख्यया संगमयति । केवलं भ्रामयित्वा पृथक्पलायते।
एवमाद्या असुविधाः स्थले स्थले प्राप्यन्ते, कियत्यो वा ताः प्रदश्येरन् । किं च अस्मिन्समये न मादृशानां तलस्पर्शिनी मतिरित्यादि सर्वमिदमसौविध्यमनुमाय सेयं टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org