________________
६२
भूमिका । __ इतोग्रे संस्कृतकवयस्तु शनैः शनैस्तथाग्रेसरा अभवन् यद्देवानां रतिवर्णनमप्यारभन्त । सत्यमिदमनपलपनीयमेव, यत्केचन कवयः शृङ्गारे तथाऽभिमत्ता भवन्ति यदेतेषां विषयपरिज्ञानायाप्यवसरो न भवति । यान् देवानेते विघ्नविघाताय स्तोतुमारभन्ते तेषामपि सुरतमेव चित्रयन्तः प्रचलन्ति । ये किल साहित्यनिबन्धकारमूर्द्धन्यास्तदेतद्वर्णनम् 'पित्रोः संभोगवर्णनमिवात्यन्तमनुचितं मन्यन्ते' तेपि खस्याकरग्रन्थेष्वेवोदाहरणविधया ताशमेव वर्णनं प्रसह्य शिक्षयन्ति । काव्यप्रकाशे (५ उल्लासे ) शेषोपरि लक्ष्मीनारायणयोः संभोगः स्फुटमेवोदाहरणविधयोपात्तः
विपरीअरए लच्छी बम्हं दट्टण णाहिकमलट्ठम् ।
हरिणो दाहिणणअणं रसाउला झत्ति ढक्केड ॥ शिवपार्वयोर्यथा-चतुर्थोल्लासे रइकेलिहिअ० (गाथा० ५।५५)
शृङ्गारोत्तरसत्प्रमेयरचने अप्रतिद्वन्द्वः श्रीमान् गोवर्द्धनमहाभागस्तु न जाने आरम्भादन्तपर्यन्तं कियद्वारान् देवानां सुरतं पुरुषायितादिनानाप्रकारैरतिप्रेमपूर्वकं वर्णयति । एष हि महाभागो भगवती जगन्मातरं श्रियमपि रागान्धां व्यपदिशति, यतो ह्यनया सुरतरसान्धतया अहिंगरुडादयस्तिर्यञ्च एव किं सर्वजगतः पितामहोपि संमुखस्थितो न परिगणितः । प्रत्युत स वराको हाराभिघातैभृशमभ्यर्चितः
तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ २४ गाथाकारस्तु गोवर्द्धनपद्धत्या देवतानां स्तव एव सर्व शृङ्गारसत्प्रमेयरचनाचातुर्य न परिशेषयति । एवंविधा एकमात्रा गाथा संपूर्णायामपि सप्तशत्यामुपलभ्यते, या हि ध्वन्यर्थसूचनेऽप्रतिद्वन्द्वा काव्यप्रकाशेप्युदाहृता 'रतिकेलि० ५।५५' । अन्यैर्वर्णनैः सह तुलयन्त्वस्या अपि तारतम्यं तीक्ष्णमतयः सूरयः।
घोरः शृङ्गार प्राकृतभाषायाः शृङ्गारनिर्भरतामापादयितुं तत्कवयः प्रायः शृङ्गार निर्मर्यादमावर्णयन्ति, येन घोरशृङ्गारप्रेमिणस्तत्राधिकमासज्यन्ति । अत्रापि स समयो निर्वाहित एव । पुष्पवत्या सह प्रणयचचो उक्तव, यस्याः परिचयः पूर्व दत्तः। रसिकंमन्यास्तावत्पर्यन्तमप्यन्धा भवन्ति यत्कुमारीमपि न परिहरन्ति । 'आनन्दपट'वर्णने सोऽपचारोपि पूर्व सूचितः । 'दीर्घरमणार्थ नायकमन्यमनस्कं करोति' इत्यादि तु कदाचिदवतरणसौकर्यार्थ टीकाकारैरेव कल्पितं भवेत् , परमनेन तत्समये शृङ्गारसाम्राज्यमवश्यमनुमितं भवति । कामशास्त्रप्रोक्तबन्ध-नखक्षतादिवर्णनं तु शृङ्गारकाव्यानां शोभैव । अत्रापि तेषां स्थाने स्थाने चर्चा । विपरीतबन्धस्य ११५२, ४।९१,५१८३,७।१४, आदिषु गाथासु वर्णनम् ।
वेश्यानामपि रसिकसमाजे पूर्णः प्रवेश आसीदित्यनया सूच्यते । तासां प्रेमाणः प्रशस्यन्तेऽन यथा-नन्दन्तु सुरत० २०५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org