________________
भूमिका ।
विप्रलम्भः 'विरहिण्यास्तापोद्गारान्माघमासस्य रात्रौ सर्वस्मिन्नपि ग्रामे अग्निमय्यो वाल्याः प्रवहन्ति' एवंविधं वर्णनमन्यस्यामपि सप्तशत्यां शक्येत विलोकयितुम् , यस्य किश्चित्परिचयः पूर्वमपि दत्तः । अवश्यमेतेषु कविकल्पनासौष्ठवं पूर्णमात्रायाम् । परं ये किल काव्यं 'जीवनस्य व्याख्याम्' मन्यन्ते ते हि नैसर्गिकं वर्णनमेव बहु मन्यन्ते । दृश्यतां गाथाकार आह-बाष्पसलिल. २१८५ । अतिकोपापि० ५।९३ । पथिकवधू० ६।४० । आश्वासयति ३।८३ तस्या हृदये० २।५३ । एकैक० ३।२० । रक्षति पुत्रं० २१
२।८५ गाथायामाह-तव विरहे तथा संतापो यथा तस्या अधरो वह्निप्रवेशमेवानुभवति। एवं विरहकृतदाहे त्वदनुध्यानजन्यस्तथा बाष्पप्रवाहो भवति यथा तदधरो जलमममेवात्मानं मन्यते, इति श्यामशबलव्रतस्य साङ्गता संपादिता । व्रतं साधयतीत्यनेनसर्वमन्यत्प्रत्यवायजनकमिव अवहेल्य 'केनचिदुपायेन तं लभेय' इति साधनाचरमफलरूपं भवन्तमेव मन्यत इति नायकं प्रत्यनुरागातिशयः सर्ववस्तुषु निर्वेदश्च सूचितः । दृश्यताम् , अत्र केवलं संताप एव नाधिकीकृतः किन्तु तेन सह विप्रलम्भस्य जीवभूतो रतिस्थायिभावोपि ध्वन्यात्मना परमं पोषितः ।
विहारिमहाभागस्य विरहवर्णने तु संतापस्य दौर्बल्यस्य वा वाच्य एवातिशयोऽत्युक्तिरूपेण रसिकाँश्चमत्करोति । वर्तमानोपि व्यङ्ग्योर्थो वाच्याया अतिशयोक्तेरने आत्मानमवकुञ्चय मन्दीभवतीति स्थाने स्थाने मार्मिकैः समीक्ष्यम् । गाथायास्तु स्वभावत एव सेयं सरणिर्यत् साधनीयमर्थ व्यङ्ग्यविधयैव सूचयतीत्यास्तां विस्तरो मार्मिकेषु ।
। देववर्णने शृङ्गारः ग्रन्थसंग्राहकेण 'अमिअं पाउअकव्वम्' इति प्रतिज्ञानुरोधाद्देवानां वर्णनेपि शृङ्गार एवाङ्गीकृतः। अत्र हि चराचरनायको भगवान् भूतपतिरपि कर्ममार्गमनुरुन्धान इव सन्ध्यामुपास्ते । तन्मध्यत एव भगवत्युमाप्यनन्तरीभवति । इयत्संनिहिता भवति यदाञ्जलौ तत्प्रतिबिम्बोप्यापतति । तदासक्तश्च भगवान्मन्त्रादिकमपि विस्मरति । इमां शैली गोवर्द्धनोप्यनुससार । आह स्म स:
सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् । . गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥६॥
गाथायां ग्रन्थान्तर्वर्णनीयस्य विषयस्य ध्वनिरूपेण सूचनार्थ भगवान् शङ्करोपि पार्वत्या एकान्तमनुगतश्चित्रितः । स हि जन्मतोभ्यस्तं परमप्रियं फणिकङ्कणमपि पार्वतीभयशङ्कया परिहरति-पार्वत्याः १।६९ । . .
१ सुनत पथिकमुँह माहनिसि, लुएं चलति उहि गाम । बिनबूझें बिनुही सुनै, जियत बिचारी बाम ॥ 'विहारी'
सं. गाथा.6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org