SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ भूमिका । 'तू रहि, हाँही सखि लखों, चढि न अटा बलि बाल । सब हि नु बिन ही ससि लणे, दैहैं अरघ अकाल ॥' उत्सवाः होलिकामहोत्सवस्य साम्प्रतं प्रचलितः प्रकारस्तदुपकरणसंभारश्च प्रागप्युपलभ्यते । अत्र हि रङ्गजलस्य वर्णचूर्णस्य ('गुलाल' ) च प्रक्षेपो वर्ण्यते-घेत्तूण ४।१२, संस्कृतग्रन्थेषु होलामहोत्सवे रङ्गप्रक्षेपादेवर्णनं न्यूनमेवोपलभ्यते । रत्नावल्यां श्रीहपेण 'पिष्टातक' प्रक्षेपादेरवश्यं वर्णनमुपनिबद्धम् 'कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरैः हेमालङ्कारभामिभरनमितशिरशेखरैः कैङ्किरातैः । एषा वेषाभिलक्ष्यस्खविभवविजिताशेषवित्तेशकोषा कौशाम्भी शातकुम्भद्रवखचितजनैवैकपीता विभाति ॥' 'पेक्ख दाव इमस्स महुमत्तकामिणीजणसअंगाहगहिदसिंगकजलप्पहारणचन्तणाअरजणजणिदकौदूहलस्स समन्तदो सुव्वत्तमद्दलुद्दामचचरीसद्दमुहररत्थामुहसोहिणो पइण्ण. पडवासपुञ्जपिञ्जरिजन्तदिसामुहस्स सिरिअं मअणमहुस्सवस्स। अस्योत्सवस्य पूर्वं 'मदनः' 'मदनोत्सवः' इति वा प्रसिद्धिरासीत् । दक्षिणाञ्चलेद्यापि होलोत्सवस्य मदनोत्सवनाम्ना ख्यातिः । अस्मिनिरर्गलः शृङ्गारः पूर्वमपि प्राचलत् । मादकसेवनं कुसुम्भरजितवस्त्राणां धारणं च साम्प्रतमिव तदाप्युत्सवाङ्गं पर्यगण्यतदयित कर० ॥ ६।४४, ४५। फाल्गुनोत्सवे मिथः कर्दमप्रक्षेपस्य सप्तशतीकालेपि रीतिरासीदित्युपलभ्यतेफाल्गुनमहनिर्दोष० ४।६९, अन्येषां क्रीडाविशेषाणामपि सप्तशत्यां सूचनं प्राप्यते । यथा उत्तानशयितस्य जनस्य चरणोपर्युपविष्टानां बालानां पतनोत्पतनात्मिका क्रीडा 'उत्फुल्लिका'-उत्फुल्लिकया० २।९६, चूतलतिकानाम्नी युवक्रीडा, यत्र हि नवलतिकामिहत्वा प्रियस्य नाम पृच्छ्यतेनवलतिका० ११२८, आचारविशेषाः प्रथमप्रथमं वरसंगमे 'आनन्दपटः' [ लग्नलोहितं वधूवस्त्रम् ] वरसंबन्धिनीभिर्महिलामिलॊकेषु प्रदर्यत इत्याचारस्य सूचनं प्राप्यते-कृत्रिममानन्द० ॥ ५। ५७, राजपुत्रेषु साम्प्रतमपि सोयमाचारः प्रचरति । गङ्गाधरस्तु 'आनन्दपटः प्रथमपुपवतीवस्त्रम् । प्रथमरजोदर्शने जाते तद्वस्त्रं बन्धुभिलॊकेषु प्रदर्यत इति देशविशेषे १ ‘प्रेक्षस्व तावत् अस्य मधुमत्तकामिनीजनस्वयंग्राहगृहीतशृङ्गकजलप्रहारनृत्य न्नागरजनजनित. कौतूहलस्य समन्ततः सुवृत्तमर्दलोद्दामचर्चरीशब्दमुखररथ्यामुख शोभिनः प्रकीर्णपटवासपुञ्जपिञ्जरायमाणदिशामुखस्य श्रियं मदनमहोत्सवस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy