________________
भूमिका।
५७ पक्षपुटं धुन्वन्तः कथंचित्संस्थानं लभन्त इति । मन्ये एवंविधं खभावचित्रणं सप्तखपि सप्तशतीषु नावलोक्येत किं पुनरेकद्वासु-भरनमित० ७६०,
निर्माणदेशस्याभासः ___ इयं सप्तशती मध्यदेशे निरमीयतेति स्पष्टमेतदाभासः प्राप्यतेऽस्याम् । विन्ध्यस्य स्थाने २ वर्णनम्-१।७०, २११५-१६,६।७७, मध्यदेशवाहिन्या नर्मदाया अपि बहुशो वर्णनम्-अकृतज्ञ. ६९९, गोदावयो अपि प्राप्यते वर्णनम्-४।५५, __ अत्र ह्यार्याणामारम्भिकनिवासस्थले हिमाचलाञ्चल इव नातिमृदुर्णीष्मः, किन्तु विग्मः पतति । यथा मध्याह्नवर्णनम्-६।५१, खिन्नस्य-३।९९, अपराह्नस्नानस्य प्रशंसा-५/७३,
वस्त्रविशेषाणां सूचना तस्मिन्काले अग्रे बन्धनीयां कञ्चलिकाम् ('पीठचोली' व्रजप्रान्ते) स्त्रियो धारयन्ति स्मेत्यत्र सूच्यते । तस्यां हि स्तनयोः सन्धिबन्धस्थले व्यङ्गुलपरिमितमञ्चलम् ('मगजी' 'गोट') च संयोज्यते । तस्य हि नाम 'कपाटकम्' । यथा-व्यङ्गुलक०-७२० __ अधुनापि मध्यदेशे तादृश्येव स्त्रीणां कञ्चुलिका प्रचलति । एषा हि 'खण'निर्मिता भवति, यत्र हि व्यङ्गुलमञ्चलम् ('कोर') वानकालिकमेव भवति । प्रायश्च नीलवर्णामधिकतयाभिरोचयन्तीत्यहो मध्यदेशीयानां प्राक्तनाचारपालनपाटवम् !
वस्तूनां नामानि तत्कालप्रचलितानि कानिचन वस्तूनां नामान्यपि चेतः प्रमोदयन्ति । यथा उपरितने पद्ये ‘बानगी' पर्यायकं 'वर्णिका' पदम् । 'वस्तुपरीक्षार्थं यद्वस्त्वेकदेशप्रदर्शनं तद्वर्णिकेत्युच्यते' इति गङ्गाधरटीका । गुड निर्माणाय इक्षुनिष्पीडकं 'यन्त्रम्' अपि विनियुज्यते स्मयान्त्रिक गुडम्० ६।५४, क्षेत्रसेचनार्थम् 'अरहस्य प्रयोगः प्राप्यते-रिक्ता० ५।९०, हलादिचालनकाले बलीवनां गले बन्धनीयश्चर्मपट्टः ('जोत' इति साम्प्रतं ख्यातः) 'योक्त्रम्' इति, नासारजुश्च ('नाथ') 'अवहासिनीति व्यपदिश्यते स्म ७९२,
एवं 'त्रपुसी' [ 'तेवरसी' खीरा ] ६।३४, 'तुवरी' ('अरहर') ४१५८, एकवृन्तगतं बदरयुगलम् ‘बदरसंघाटी' ५।१९, कपिकच्छूः 'कोंछ' ६।३२, हालाहलः 'बहमनिया' १।६२, छल्ली 'छाल' २।१५, शारी ('सार' 'गोट') २१३८, दुर्मोच्यो प्रन्थिः ('फंदा') दुर्दोली २।४९, इत्यादीन्यपि नामानि प्राप्यन्ते ।
व्रतविशेषाणां नामानि प्राक्प्रचलितानां तपःसूचकानां केषांचन व्रतविशेषाणामपि नामान्युपलभ्यन्ते-यथा श्यामशबलाख्यो यत्र वह्नौ प्रविश्य जले प्रविश्यते-२१८५, अग्निपानीयाख्यः ३।११, चतुर्थ्यादिव्रतेषु चन्द्रायार्घ्यदानमपि वर्ण्यते-हसितः प्रशंसता० ४।४६, ब्रजभाषाकविर्विहारी अप्याह
Jáin Education International
For Private & Personal Use Only
www.jainelibrary.org