________________
५६
भूमिका। एवं पूर्णयौवना हलिकवधूरपि ग्रामयुवकानां लक्ष्यं भवति-वृतिविवरनिर्गत० ॥३।५७
अत्र केवलं प्रामवासिनामेव स्वाभाविकः शृङ्गारो न वर्णितः प्रत्युत अरण्यवासिनां भिल्लानां किरातानां चापि नैसर्गिकी प्रणयचर्या चित्रिता । नागरिकचर्याभिमानिभिः साहित्यनिबन्धकारैः कैश्चित् शृङ्गाररसो नागराभिमानिषूत्तमपात्रेष्वेव स्वीकृतः, अन्यत्र स्वाभासरूप इति तृतीयशतकस्य अष्टत्रिंशत्तमायां 'विक्रीणीते' इत्यादिगाथायां सरस्वतीकण्ठाभरणमतमादर्शितं मया टीकायाम् । परं स्पष्टोयं प्रौढिवादः । सरलनिसर्गेषु ग्रामवासिषु यः किल पारस्परिकः स्वभावजः प्रणयबन्धो भवति स तावदनुचितः ? यत्किश्चित्प्रायमपि प्रेमलेशं कृत्रिमैराडम्बरैर्बहूकुर्वद्भिर्नागराभिमानिभिरेव किमीश्वरगृहादेतस्य स्वत्वमायत्तीकृतम् ? अस्तु. अत्र वनेचराणां व्याधानामपि शृङ्गारः सुमधुरमाबध्यते । प्रियतममेकान्ततो वशीकृतवती व्याधवधूः प्रियप्रणयवञ्चितासु सपनीषु गजमुक्तालंकृतास्वपि मयूरपिच्छावतंसा भ्रमति-शिखिपिच्छकावतंसा० २।७३
तत्पतिः सततसुरतासक्ततया दुर्बलो भवति । अत एव दौर्बल्यवशादुराकर्ष धनुस्तक्षणेन तनूकरोति । एतत्किलात्मनः सौभाग्यं मन्वाना व्याधवधूर्मनस्यभिमन्यते-अद्य कतमोपि० २११९
अत्रोपवर्णितो व्याधो न साधारणः । एष हि हेलयैव मत्तगजानां हन्ता । एतदधिष्टिते वने वृक्षस्कन्धलग्नं गजमदमालोक्यैव तत्पनी निजपतिमरणमनुमिनोति-गजगण्डस्थल० ॥२॥२१ अत्र पुलिन्द्यपि प्रियस्य सपत्नीसङ्गशङ्कयापि मानिनी भवतिमधुमक्षिकया० ७॥३४
प्राकृतदृश्यानि अत्र हि स्थाने स्थाने प्राकृतदृश्यानां मनोहारि वर्णनम्-प्रोत्फुल्लघन० ७३६, निरन्तरं या मेघधारा वर्षन्ति तासु रज्जूप्रेक्षां कृत्वा महीमुत्क्षेप्तुमप्रभवतः अत एव शब्दं कुर्वतो जलदस्य कीङ् मनोहरं वर्णनम्-अविरलनिपत० ५।३६, विद्युतो यथा-खरपवन० ६१८३, ८४ । मयूरनृत्यम्-६।५९ । मयूरस्तृणाग्रलग्नं वर्षाजलं कथमिवाचमतीति दृश्यतां स्वभाववर्णनम्-४।९४ । ग्रामे सायं भ्रमतां मशकानामपि कथमिव खभावश्चित्रितः-६१६० । वर्षासु गिरिग्रामाणां शोभा०-७।३६ वर्षासु क्षेत्रवृतरुपरि ऊर्ध्वचञ्चवः काकाः कथं स्थिताः-६।६३ । अम्बरादवतरन्त्याः शुकपतयाः कीदृङ् मनोहारि वर्णनम्-११७५
शरदि मेघानां शोभा-७१७९ कमलवनलक्ष्म्याः स्वाभाविकं वर्णनम्-५।९५,७१४, अलिपतेः शोभा-६।७४, रात्री कमलानामुपरि भ्रमराणां शोभा-६।६१, शरदि जलानां स्वच्छता-७।२२, सायमावासग्रहणाय वृक्षशिखरे तिष्ठतां पक्षिणां कीहक् खभावचित्रणम् । उपरित उड्डीय ते प्रथमं लघुशाखाग्रे तिष्ठन्ति किन्तु यावत्तेषामग्रचरणमेव न स्थाप्यते ततः पूर्वमेव तेषां भरेण नमिते शाखाग्रे स्खलितचरणापास्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org