________________
५४
भूमिका |
निष्पन्नसस्य संपद् गायति शरदीह पामरः स्वैरम् । दलितनवशालितण्डुलधवलमृगाङ्कासु रजनीषु ॥ ७१८२
तण्डुलारम्भकं सेचनजलं प्रदाय सुप्रसन्नः कृषको यदा हि शालिगुच्छकापूर्ण क्षेत्रमवलोकयति स्म तदा पुत्रस्येव दर्शनेन स हि मनसि प्रासीदत् । अहो कीदृशी स्वाभाविकी च श्लेषवैदग्ध्यपूर्णा चोक्तिः—
क्षीरैकपायिना दत्तजानुपतनेन पङ्कमलिनेन । पुत्रेणेव हि शालिक्षेत्रेणानन्द्यते हलिकः ॥ ६६७
कृषि संबन्धीनि कार्याण्यप्येषां भवन्ति, सहैव जीवने स्वाभाविक्यः प्रमोदचेष्टा अपि संचलन्ति । स्त्रियः पुरुषाश्च कार्पासचयनाय क्षेत्रेषु संगच्छन्ते । पारस्परिकव्यवहारादन्येपि कृषकाः कार्ये साहाय्यमापादयन्ति स्म । सुखदसूर्यातपाः शिशिरवासराः । रम्यो वनोद्देशः । उन्मादक सर्व सामग्री पूर्णस्मिन्समये समभवन्नैतेषु शृङ्गारचेष्टाः । -हलिकपुत्रानुरक्ता वधूरनुभावैरन्यासाममिलक्षणीया भवति
गृहपतिसुतोच्चितेष्वपि पश्यत कार्पासवृत्तेषु ।
मोघं भ्रमति पुलकितो लग्नवेदाङ्गुलिः करो वध्वाः || ४|५९
ग्रामवासिन्यो मधूकपुष्पावचयाय ग्रामपरिसरं प्रयान्ति । भवन्ति तासां संकेत केलयोपि तत्रैव । यथा हि मधूकपादपापदेशेन प्रियमामन्त्रयते काचित्
बहुपुष्पभारनामितभूमीगतशाख शृणु हि विज्ञप्तिम् । अयि विगलिष्यसि गोदातीर विकटकुञ्जमधुमधूक शनैः ॥ २३ ईर्ष्याकुलाश्व केचित्कृषका दयितामप्रेष्य स्वयमेव पुष्पाण्युच्चिन्वन्ति
ईर्ष्यालुः पतिरस्या दत्ते निशि नो मधूकमुच्चेतुम् । उच्चिनुते स्वयमेव हि मातर्कजुकस्वभावोयम् ॥ २५९ शालिगोपी शालिक्षेत्रे रममाणा शुकपतनशङ्काकुला मनोभीष्टं वल्लभमाहप ितरुकोटरतो निष्क्रान्तां पश्य पुंशुकानां हि । शरदि द्रुमो ज्वरित इव सलोहितं पित्तमिव वमति ॥ ६/६२ आर्यासप्तशत्यामप्युक्तम्
पथिकासक्ता किञ्चिन्न वेद घनकलमगोपिता गोपी । केलिकलाहुंकारैः कीरावलि मोघमपसरसि ॥ ३।४६ शालिपाके च संकेतभङ्गभिया सा विषीदति -
दिवसे दिवसे शुष्यति संकेतकभङ्गवर्द्धिताशङ्का । आपाण्डुरानतमुखी कलमेन समं कलमगोपी ॥ ७९१
Jain Education International
For Private & Personal Use Only •
www.jainelibrary.org