________________
भूमिका।
शरीरकान्तिः . 'सघनकुञ्ज घन घनतिमिर अधिक अँधेरी राति ।
तऊ न दुरिहै स्याम वह दीप सिखासी जाति ॥' 'वर्षासमयः । तत्रापि कृष्णपक्षस्य रात्रिः। ततोपि धनघटा परित आच्छादिता। एतदुपर्यपि संकेतस्थलभूतः कुञ्जोतिघनतयाऽन्धकारिततमः। तथापि दीपशिखेव गच्छन्ती सा अलक्षिता न भवेत् ।'
'जुवति जोन्हमें मिलिगई नेकु न होति लखाइ ।
सौन्धेके डोर लगी अली चली सँग जाइ ॥' 'गौरशरीरा नायिका ज्योत्स्नायां मिश्रिताऽभवत् । न किञ्चिदपि मैदः प्रतीयते स्म । तनुसुगन्धसूत्रेणैव सखी तामेतामनुगच्छति ।' इत्यादि ।
एवं सत्यपि स्वाभाविकं वर्णनं विहारिसूक्तो नोपलभ्यत इति न शक्यते वक्तुम् । दृश्यतां ग्रामवासिनीनां नारीणां प्राकृतं वर्णनम्
'गोरी गदकारी परै हँसत कपोलन गाड ।
कैसी लसत गमारि यह सुनकिरवाकी आड॥' गौरवर्णा । स्वास्थ्यसूचकानि भरितान्यङ्गानि । हसन्त्यां यस्यां कपोलयोर्गतः पतति ।' वर्णकीटस्य (सपक्षकीट विशेषस्य ) हरितं पक्षं भालबिन्दुस्थाने दधती सेयं ग्रामीणस्त्री कीदृशी शोभते।
'पहला हार हिये लसै, सनकी बैंदी भाल ।
राखत खेत खरी खरी खरे उरोजन बाल ॥' वन्यपुष्पाणां हारो वक्षसि । शणपुष्पस्य बिन्दुर्भाले विधृतः। उच्चकुचयुग्मा सेयं बाला तिष्ठन्ती क्षेत्ररक्षां करोति। धूमपानस्यापि वर्णनमात्तं विहारिणा
'ओठ उचै हाँसीभरी हग भौंहनकी चाल।
मो मन कहा न पीलियो पियत तमाखू लाल ॥' तमाखूपानं कुर्वता प्रियेण ओष्ठमुन्नमव्य हसन्तीभ्यामिव दृग्भ्यां ध्रुवोर्भुनतया च किं मनो मे न पीतम् ?
श्रीमदम्बिकादत्तव्यासकृत टिप्पण्यनुसारम्-'पूर्वं तमाखू-गञ्जिकादीनां प्रचार आसीन्न वा । अथवा-'तमाखुस्तमाखुस्तमाखुस्तमाखुः' इति भगवतो विरिञ्चेश्चतुर्भिर्मुखैः प्रशंसागीतिपरमिदं पद्यं केवलं संस्कृतनिबद्धमेवास्ति, उत कस्मिंश्चित्प्राचीने काव्येप्युपलभ्यत इत्यादेः परस्परविवादस्य नावश्यकता । यदि 'पियत तमाखू लाल' इति सदुक्तिः श्रीमतां चेतोहरा तर्हि तस्या अपि विहारिकोषे न न्यूनतेत्येवान वक्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org