________________
भूमिका। विषये आकर्षकतोत्पद्यते । स्पष्टमिदमेतद्भाषाविदों तदालोचकानां च। अतो नेदमुदाहरणैः प्रपञ्चयितुं काम्यते । एतद्दर्शनाभिलाषुकैर्मत्कृतस्य 'साहित्यवैभवस्य' छन्दोवीभ्याम् , 'जयपुरवैभवस्य' भूमिकायां चैतदालोचना विस्तरतोवलोकयितुं शक्यते । अत्र विदमेव दर्शयितुमिष्यते यदेवंविधवातावरणस्य प्रभाव विहारिसूक्तिरपि नोल्लङ्घयितुमपारयत् । अस्ति स्थाने स्थाने अत्युक्तिरूपेण वर्ण्यस्योत्कर्षप्रदर्शनं विहारिसूक्तौ । विरहवर्णने यथा__'औंधाई सीसी सु लषि बिरह बरी बिललात ।
बीच हि सूखि गुलाब गौ छींटौ छुई न गात ॥' 'विरहसंतापमवलोक्य शीतलीकरणार्थ सख्या यावदेव पाटलासलिलस्य (गुलाबजल ) काचकूपिका आवर्जिता तावदेव सर्वमेव जलं परिशुष्य लुप्तमभूत् बिन्दुरपि तदात्रे नास्पृशत् ।' अहो संतापः !!
'सीरे जतननि सिसिर रितु, सहि बिरहिन-तन-ताप ।
बसिवेकों ग्रीषमदिननि, पस्यो परोसिन पाप ॥' 'विरहिण्याः प्रतिवेशिन्या विरहजनितः शरीरोष्मा शीतनिशि (न दिवसेपि) शरीरे हिमशिलास्थापनादिशैत्ययत्नैः कथंचित्प्रतिवेशिभिः सोढः । ग्रीष्मौ तु तस्याः प्रतिवेशे निवासः प्रतिवेशिनां पापमिव परिहरणीयोऽभवत् ।' इत्यादि.
दौर्बल्यम् 'करी विरह ऐसी तऊ, गैल न छाँडत नीच ।
दीनेहू चसमा चखनि, चाहै लखै न मीच ॥' 'मृत्युर्नेत्रयोरुपनेत्रं धृत्वा विरहतनुभूतां तां पश्यति परं न प्राप्नोति । एवंभूता सा नायिका विरहेण कृता । तथापि नीचः (विरहः) एतदनुसरणं न त्यजति ।' पद्मसिंहः'तऊ न छाँडत गैल' इत्यस्य 'तथापि सा प्रेमपथं न त्यजति' इत्यर्थमाह । इत्यादि.
शरीरसौकुमार्यम् 'छाले परिबेके डरनि, सकत न हाथ छुवाइ ।
झझकत हियै गुलाबके झमा झमावत पाइ ॥' चरणौ प्रक्षालयन्ती परिचारिका कोमलौ तस्याश्चरणौ करेण न स्पृशति । कदाचन मत्करस्पर्शन सुकुमार्या अस्याश्चरणयोः क्षतपिटका भवेयुः। पाटलाकुसुमसाहाय्येन शनैःशनैश्चरणौ प्रक्षालयन्त्या अपि तस्या हृदयं तत्कष्टशङ्कया बिभेति ।
'मै बरजी कई बार तू इत कत लेत करौंट ।
पखुरी लगें गुलावकी परिहैं अङ्ग खरौंट ॥' - मया कतिवारान् त्वं प्रतिषिद्धा यत् अस्यां कुसुमशय्यायामितः कथमिव पार्श्वपरिवर्तनं करोषि ! पाटलाकुसुमपत्रिकायाः स्पर्शेपि तव गात्रे विलेखनजं क्षतं भविष्यति । इत्यादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org