________________
भूमिका । एवमादिषु स्थलेषु गाथार्थोऽविकलमुपजीवितः श्रीमता विहारिणा । गाथासप्तशत्यां वर्णनीयो विषयः प्रायः प्रकृत्या यः किल लोके उपलभ्यतें तादृश एव । प्राकृतिकशोभामयेषु ग्रामेषु यः किल जनानां परस्परं खाभाविकः प्रणयपरीपाकः, स एव कविना काव्यसूक्तौ परिणमितः । क्षेत्रेषु नदीतटेषु लतागहनेषु वेतसवनेषु अकृत्रिमप्रणया रसिका विहरन्तीति सप्तशतीवोयमग्रे प्रस्फुट एव भवेत् । किमिह विशेषपल्लवितेन । अत एव नायकयो रूपवर्णनमपि स्वाभाविकमेव । न तत्र कविः प्रायः प्रकृति सीमानमतिकामति । यद्यत्र कश्चिदतिशयोपि वर्णनीयो भवेत्तदापि ध्वनिरूपेण तमभिव्यञ्जयति । यथा
तस्या अङ्गे प्रथमं यत्रैव हि यस्य निपतिता दृष्टिः ।
तत्रैव तस्य मना सर्वाङ्गं किल न केनचिदृष्टम् ॥ ३॥३४' सौन्दर्य सिन्धोस्तस्या एकैकाङ्गशोभादर्शने निश्चलनिलीना दृष्टिन सर्वाङ्गशोभादर्शने समर्थति तात्पर्यम् । एवं च साकल्येन यदा द्रष्टुमेव जनेन न प्रभूयते तदा कथमिव तद्वक्तुं शक्येत, अत एवानिर्वचनीयं तस्या रूपमिति ध्वनितम् ।
कस्याश्चिदतिशयोक्तर्वाच्यरूपेणावतारणा गाथायामतिन्यूनैवावलोक्येत । नायिकाया वपुःकान्ति सूचयितुं दीपशिखोपमापि दत्ता गाथायाम् , परमेकद्वस्थलेष्वेव । यथा
मा पुत्रि चौर्यसुरतश्रद्धाशीले ! भ्रमान्धकारेऽस्मिन् ।।
दीपकशिखेव निबिडे तमसि निकामं निरीक्ष्यसे नूनम् ॥ ५।१५' विहारी तु गाथासूचितमिदं सादृश्यं स्थाने स्थाने निबबन्ध-'कहो दुराई क्यों दुरै दीपसिखासी देह ।' 'पावक झरसी झमकिकें गई झरोखा झाँकि' । 'ज्यों ज्यों पावकलपटसी तिय हियसौं लपटाति ।' 'जल चादरके दीपलों जगमगात तन जोति । 'अङ्क अङ्ग नग जगमगत दीपसिखासी देह' । इत्यादि ।
गाथायां यद्दीपशिखासाम्यं तन्न केवलं रूपातिशयवर्णनायैव, प्रत्युत दीपशिखा गोपितापि यथा प्रकाशते तथा तवाभिसारः सर्वविदित इति सूचयन्त्या कयाचित्प्रौढया हितैषिताभावः 'पुत्री'तिसंबोधनसहकारेणात्र ध्वन्यत इति जानीयुर्विमर्शकाः । अस्तु. सत्यं त्वेतत्-यत् स्वतःसंभवी एवार्थो गाथाकर्तुरभिप्रेतः । कविप्रौढोक्तिसिद्धो नात्र वर्ण्यत इति न मेऽभिप्रायः, परं तादृशोर्थः पूर्वस्यापेक्षयातितमां न्यूनविषय इति मर्मतो गाथातत्त्वालोचकानां स्पष्टम् ।
व्रजभाषामहाकविना विहारिणा तु प्राक्तनसंस्कृतशैलीमुपजीव्य यदा ह्यात्मनः 'सतसई' समुपनिबद्धा, आसीत्तस्मिन्समये भारते मोगलमहीभृतां साम्राज्यम् । 'उर्दू भाषा ह्येतस्मिन्काले राजाश्रयवशाल्लोकानामादरभूमिरभूत् । एतस्यां भाषायां च शैलीनाम् ('मुहाविरे') यथार्थमनुसरणेन केवलं भाषागतमेव माधुर्यमनुभूयते । वर्ण्यविषयस्त्वतिसंक्षिप्तः । अत्युक्तिरवश्यं चमत्कारकरूपेण पदे पदे ह्युपनिबध्यते यया किल वर्णनीय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org