________________
भूमिका । 'पिय तियसो हँसिकें कह्यौ लण्यौ डिठोना दीन ।
चन्द्रमुखी मुखचन्द्रसों भलो चन्द्रसम कीन ॥ ४९१' दृष्टिदोषनिवर्तकं कज्जललाञ्छनं दृष्ट्वा प्रियः सहासं प्रेयसीमाह-हे चन्द्रमुखि ! त्वया ( कज्जलरेखामाननैकदेशे कुर्वत्या ) सकलङ्कश्चन्द्रो मुखस्य सम्यक् समानीकृतः ! अथवा हे चन्द्रमुखि तव मुखं 'चन्द तें भलो' चन्द्रादप्यधिकं सुन्दरमासीत् । कज्जलबिन्दु रचयन्त्या तत्त्वया चन्द्रसमं कृतम् ।'
मुखे श्यामिकासम्बन्धेन सकलङ्कस्य चन्द्रस्य समतासंपादनवर्णना उभयत्र समाना । परंतु एकत्र श्यामिका गृहिणीत्वप्रयोजके गृहकार्ये लग्ना स्वाभाविकी वर्ण्यते । अपरत्र दृष्टिदोषनिवर्तनसंरम्भात् वयं खमुखसौन्दर्य बहुमन्वानया शृङ्गारविधया रचितमित्युभयोस्तारतम्यं मार्मिकैः परीक्ष्यम् । उभयत्र वर्णितः परिहासोऽपि कुत्राधिकं स्वारस्यमावहतीत्यपि सहृदयैरवगम्यम् । ___ चतुर्थीव्रते चन्द्रायार्घ्यदानावसरे नायिकामुखं दृष्ट्वा जनस्य चन्द्रभ्रान्तिर्भवतीति सवि. छित्ति वर्णितं गाथायाम्
हसितः प्रशंसता सखि चिरमावसथिकजनः पत्या। विधुरिति तव किल वदने वितीर्णकुसुमाञ्जलि विलक्षः॥ ४।४६ विहारिमहाभागोपि प्रकारान्तरेणाह'तू रहि होही ससि लपौं चढि न अटा बलि वाल।
सव हि नु बिनुही ससि लषै दैहैं अरघ अकाल ॥' त्वमि हैव तिष्ठ । अट्टालकं मा आरोह । अहमेव चन्द्रं वीक्षे । सर्व एव जनो विनैव चन्द्रदर्शनमकाल एवार्य प्रदद्यात् ।'
विहारिसूक्तौ ‘देंहैं' इति संभावनैव । गाथायां तु चन्द्रबुद्ध्या अर्घ्य कुसुमाञ्जलिर्वितीर्ण एव ।
प्रियनामग्रहणेन हर्षातिशयमालोक्य परिलक्षितवल्लभानुरागां लक्षितां वर्णयामास गाथा
वल्लभ एव स नहि यदि गोत्रग्रहणेन तस्य सखि किमिति ।
भवति मुखं तव रविकरसंभेदोद्भिन्नमिव नलिनम् ॥ ४॥४३ विहार्यपि लक्षितां लक्षयति
'नाम सुनतही है गयो तन और मन और।
दबै नहीं चित चढि रह्यौ कहा चढाये त्यौर ॥' । 'नामग्रहण एव देहे पुलकादि, मनसि चाञ्चल्यं चोदभूत् । इदानीं तव मनोवासी स नायको गोपयितुं न शक्यते । भ्रूभङ्गादिकृत्रिमकोपामिनयेन किं भवति ।'
सं. गाथा. 5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org