________________
भूमिका ।
प्रेयसि सुविषमशीले शुद्धमना देवरेऽसदृश चित्ते ।
न वदति कुटुम्बविघटनभयेन तनुकायते खुषा किन्तु ॥ ११५९ देवरे कामविकारदूषितचित्ते सत्यपि अविकृतचित्ता पुत्रवधूर्वामस्वभावे प्रियतमे देवरस्य तां कुत्सितां वार्तां कलहकृत कुटुम्बविघटनभयेन न कथयति, किन्तु तद्दुःखेन कृशा भवति । विहारी अप्याह
४८
'कहति न देवरकी कुबत कुलतिय कलह डराय । पंजरगतमंजार ढिंग सुग लौं सूकति जाय ॥'
'कुलवधूः कलहभयेन देवरस्य कुत्सितां वार्तां न कथयति । किन्तु मार्जारनिकट स्थिता पञ्जरगता शुकीव शुष्यति ।' 'स्रुषा' पदेन श्वशुरादिसत्तायां संमिलित कुटुम्बे कलहो माभूदिति भयेन हृदय एव पुटपाको निर्भरं चित्रितो गाथया । किञ्च 'सुविषमशीले' 'असदृशचित्ते' इति पदाभ्यां यः किल भावविशेषचित्रितः सोऽन्यत्राऽप्राप्यः ।
किं भण्यतां नु वाचा कियदिव वा लिख्यते लेखे । तव विरहे यदुःखं त्वमेव तस्यासि विदितार्थः ॥ ६।७१ 'कागद पर लिखत न बनै कहत सँदेस लजात ।
कहि है सब तेरो हियौ मेरे हियकी बात ॥ ३९४ '
'पत्रे लेखितुं न पार्यते । लज्जितया मया वाचापि च किं संदिश्यताम् ? । तव हृदयमेव मम हृद्गतं संतापादिकं ते कथयिष्यति ।'
क्षणमुञ्छति मार्जयति क्षणमुद्ध्रुवति क्षणं न तद्विदती । मुग्धवधूः स्तनपृष्ठे दत्तं दयितेन नखरपदम् ॥ ५|३३ विहारी नखक्षतं दन्तक्षते परिवर्तयामास । आह सः-'छिनकु उधारत छिन छुवत राखत छिनक छिपाय ।
सब दिन पियखण्डित अधर दरपन देखत जाय ॥ १०९ 'प्रियेण खण्डितमधरं क्षणं विवृणोति क्षणं स्पृशति, क्षणं च तं निह्नुते । दर्पणे अधरमवलोकयन्त्यास्तस्याः सर्वं दिनं व्यत्येति ।' गाथायां मुग्धा नायिका, विहारिणा तु प्रेमगर्विता निर्मिता । किन्त्वर्थः स एवोपजीवितः ।
गेहिन्या माहानसकर्ममसीमलिनितेन हस्तेन ।
स्पृष्टं मुखमुपहसति हि चन्द्रावस्थां गतं दयितः ॥ ११३
महानसे तन्मयतया प्रसक्ताया गृहिण्या मुखे पाकपात्रादिगता श्यामिका लया । अत एव तदवस्थायामपि शोभमानं मुखं वीक्ष्य सानुरागहासं प्रिय आह--यदिदानीं सलाञ्छनस्य चन्द्रस्य दशां मुखं वास्तव एव गतमिति । गृहकार्यप्रसक्तायाः गृहिण्याः स्वाभाविकी शोभा । तत्रैव च प्रसाधनसाधनानपेक्षः प्रियतमस्य खाभाविकः प्रेमहेतुकहर्षोत्कर्षः सुभगतया चित्रितो गाथाकारेण । 'विहारी' तु प्रसाधनं कुर्वत्याः प्रेयस्या वर्णनं इममर्थमुपजिजीव
----
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org