________________
भूमिका ।
षमाकर्ण्य स्खयमेव संतुष्टा नाभूत् प्रत्युत दस्युभिर्बन्दीकृतानामन्यासामपि बन्दीनामावासनं तया दत्तम् । इति गाथार्थो विहारिणा प्रकारान्तरेण परिवर्तितः। तस्य समयो मोगलसाम्राज्यभुक्त आसीत् । नाभूत्तस्मिन्समये धनुर्युद्धम् । अत एव तेन प्रत्यञ्चारवस्य स्थाने सिंहध्वनिसदृशी नाथस्य गर्जना गुम्फिता। पूर्वार्द्ध तदिदं परावर्त्य, उत्तरार्द्ध यदिदं गर्वहास्यमुपनिबद्धं तद्धि बन्दीव्रज्याया द्वितीयस्या गाथात उपजीवितम् । विहारी कथयति-'हँसी सबन मुख हेरि' अर्थात् इदानीं युष्माकं वीरतां द्रक्ष्यामि । मत्पतिः क्षण एव सर्वान् युष्मान्पराजित्य मां मोचयिष्यतीति गर्वस्मितमभूदित्यर्थः । किन्तु गाथायां यदुक्तं तदन्यादृशमेव मर्मस्पृक्
'नो वन्दि गम्यते किं को गर्वो येन मसृणगमनासि ।
जल्पितमदृष्टदशनं विहसन्त्या 'शास्यसे चोर' ॥ ६॥२७' अत्र पदैः कस्को ध्वनिरिति तु मट्टीकायामालोकनीयम् , नेह विस्तार्यते।
आदाय चूर्णमुष्टिं हाँत्सुक्येन वेपमानायाः। प्रियमवकिरामि पुर इति हस्ते गन्धोदकं जातम् ॥ ४॥१२' अस्या गाथाया भावार्थो विप्रतीपतया उपजीवितो विहारिणा । अत्र हि मदनोत्सवे गन्धद्रव्यधूलिं (पिष्टातक 'गुलाल') गृहीत्वा प्रियतमोपरि विच्छुरणेच्छया नायिका स्थिता। परं यावत्कालं विच्छुरणेच्छा हृदयेऽवरुद्धा तावदुत्कण्ठायाः प्राबल्यात्कान्तदर्शनजनितखेदात्मकसात्त्विकभावाच सा मुष्टिर्गन्धोदकमभूदित्युच्यते । एतद्विरुद्ध द्रवरूपमप्यङ्गविलेपनम् ('अरगजा' ) नायिकाया मुष्टिनिविष्टं सत् शुष्कतया 'अबीर'(पिष्टातक-)रूपमभूदिति विहारी निबद्धवान्
"मैं लै यो लयो सुकर, छुवत छनक गौ नीर ।
बाल तिहारो अरगजा उर लै लग्यौ अबीर ॥' पूर्वानुरागे नायिकाया विरहवेदनां सखी वक्ति-'मया भवत्प्रहितः स विलेपनसुगन्धद्रवस्तस्या हस्ते दत्तः । तया गृहीतः। परं विरहतप्तायास्तस्याः करस्पर्श एव छनिति जलांशः शुष्कोऽभवत् । हे कुमार ! तत्तव सुगन्धलेपनं गन्धचूर्णतामापद्य निश्वासोड्डीनं तस्या उरसि समसज्यत ।'
गाथायां संभोगशृङ्गारः, विहारिकृती तद्विरुद्धो विप्रलम्भः । गाथायां गन्धचूर्णस्य गन्धोदकमभूत् । विहारिणा गन्धोदकमपि विरहतापाधिक्याद् गन्धचूर्णीकृतम् । अस्तु. न कापि हानिः । होलामहोत्सवे गन्धधूलिगन्धोदकं चेत्युभयमपि रङ्गक्रीडोपयोगि ।
आगच्छतः प्रियस्य स्वाऽऽलम्बितमानतः परामुख्याः। मानिनि हृदयं कथयति पृष्ठे पुलकोद्गमस्तवाभिमुखम् ॥ ११८७ खयम् आलम्बितेन (त्वया बलात्परिधृतेन नतु वास्तवेन) मानेन पराङ्मुख्या अपि तव हृदयम् , प्रियदृष्टिनिपातेन संजातः पुलकोद्गमस्तव पश्चादागच्छतः प्रियस्य संमुखं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International