________________
४५
भूमिका। मानसदनादिभ्यः पूर्वमात्मैव केन वा लोकेन न रक्ष्यते। किन्तु इयमप्युक्तिरभिप्रायविशेष सूचयति । स चायम्- 'अहं जीवितादपि वल्लभं भवन्तमेव भावयामि । परमन्यासक्तो न त्वं ममैतावत्कोटिकमनुरागं परिज्ञास्यसि । त्वं हि मां वार्थिनीमेव जानासि । परं त्वद्भावनानुसारं मम जीवितमेव मे वल्लभमस्तु, न भवान् । परं तन्मे जीवितमेव तु त्वां विना न भवति ! अत एव जीवितानुरोधेन त्वामनुनेतुं परवशास्मि ! दृश्यताम् , कीदृशो ध्वनेश्चमत्कारः! ! 'त्वं मम कोपि नासि । मम तु जीवितमेव प्रियम् ।' इति तु मुखादुच्यते । परं प्रत्येकसहृदयस्य हृदये स्पष्टमङ्कितं विदं भवति-यत्त्वं जीवितस्यापि जीवितमिति । अयमेव ध्वनिकृतश्चमत्कारो नाम । अनेनैव च महाकवित्वव्यपदेशः । पदमाधुर्यनिबन्धनस्यापि महत्त्वस्य काव्यकलायामस्ति स्थानम् । परं ध्वनेरग्रे न तस्य मूल्यम् । एतद्धि साम्प्रतिका हिन्दीमहारथिनोपि मन्यन्ते । हिन्दी साहित्यालोचनेन' ख्याति प्रापितो बी. ए. विरुदो बाबूश्यामसुन्दरदासमहोदयो 'ललितकलानां' मध्ये काव्यकलां सर्वमूर्द्धन्यां मन्यते । कलानां श्रेष्ठतायाः परिभाषा च तेन स्थापिता---'यस्यां कलायां मूर्त आधारो यावन्यूनो भवति तावदेव सा श्रेष्ठा परिगण्यते। अर्थरमणीये काव्ये शब्दस्यापि साहाय्यमतिन्यूनं भवति । अतएव अर्थरमणीयं काव्यं सर्वकलापेक्षयापि श्रेष्ठम्' इति । इदानीमनेन मानदण्डेन काव्यस्योत्कर्षो न केन वा स्थूलमतिना परिज्ञायेत? यत्र हि 'चितवनि' 'सुजान' 'मरगजे' इत्यादिपदैरेव मूर्द्धनमान्दोलयन्त्यालोचकपुङ्गवास्तत्र हि पूर्वोक्तेषु पदेष्वेवान्वयव्यतिरेकानुविधायि माधुर्यमवतिष्ठते । ततश्च तादृशस्य शब्दरूपस्याधारस्य साहाय्यात् ध्वनिप्रधानकाव्यापेक्षया तद्धि सुतरां दुर्बलं भवतीति स्पष्टं तद्विदाम् ।
अस्तु. अस्यां गाथायां यावान्ध्वनिचमत्कारस्तं किल 'बालक' इत्यामन्त्रणं पुनर्मण्डयति । 'मम त्वेतावान्प्रणयो यत्त्वां विना मम जीवनमेवासंभवम् । अत एव खजीवितस्थितये त्वदनुनयाय परवशा भवामि । परं पुनः पुनर्व्यलीककारितया दृढीभूतहृदयेन भवता त्विदं ज्ञायते यन्ममापराधः पूर्वमनया गृहीतः, इदानीं च मिथ्येति निश्चित्य स्वयं सोऽपमार्जित इति । परं प्रणयपरिपाकानभिज्ञत्वादेव तवेदृशो विचारः । अत एव भवानस्मिन्विषये मुग्ध एवेत्युपालम्भं 'बालक'शब्देनामन्त्रणं ध्वनयतीति सचेतसो विमृशन्तु । विशेषतश्च तेषां दृष्टिराकर्टव्या भवेत् ये पदे पदे 'वर्ण्यविषय आच्छिन्नः' 'कीदृशः संस्कारः कृतः' इत्यादि वाक्ताण्डवं मण्डयन्ति ।
'वज्रपतनातिरिक्तं पत्युः श्रुत्वा तु शिञ्जिनीघोषम् । खसदृशबन्दीनामपि बन्द्या द्राक् प्रोञ्छिते नयने ॥ १५४' 'नाह गरज नाहरगरज, बचन सुनायो टेरि ।
फँसी फौज बिच बन्दिमें, हँसी सबनि मुख हेरि ॥ ६५९' बन्दीकृत्य स्त्रीणां बलादाहरणं पुरा वीरतासूचकमासीत् । उपलभ्यत एव तदिदं संस्कृतसाहित्ये । तदनुसारमेव काचिद्वन्दीकृता वीरवधूर्वज्रनिर्घोषादप्यधिकं भर्तुः प्रत्यञ्चाघो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org