________________
४४
भूमिका । स्यापि कृशता समीरिता । यथा यथा नवयौवनोदयादङ्गानि समधिकमनोहराणि भवन्ति तथा तथा तत्रात्यन्तमासक्तिः प्रियतमस्य प्रसज्यतीति तत्फलमप्युदीर्यते । दयिते सपने च कृशतारूपतुल्यव्यापारवर्णनात्कण्ठाभरणोक्ता तुल्ययोगिता । यौवनरूपकारणस्य मध्यादिकृशतारूपकार्यस्य च समान कालिकतावर्णनादक्रमातिशयोक्तिश्च । आभ्यामलङ्काराभ्यामलङ्कता सेयं वाच्यार्थनीवी वयःसन्धिकृतं नायिकायाः परमसौन्दर्यमाह । दोहासदृशे छन्दसि भूयसोर्थस्य संग्रहे प्रसिद्धो विहारी। परमत्र कोटित्रयसंग्रहात्स्पष्टं गाथैवाधिक धनिनी । किमेतत्तुल्ययोगिता मर्मतः समीक्ष्येतालोचकैः ? अन्यत्रापि सेयं समुच्चयशैली गृहीता गाथाकारेण । यथा'मध्यः प्रियः कुटुम्ब पल्लीयुवकाः सपत्यश्च ।
क्षीयन्ते पञ्च तथा व्याधगृहिण्याः स्तनौ यथैधेते ॥ ६९७' अस्तु. पुनः प्रकृतमनुसरामः।।
बालक भवतोप्यधिकं मम जीवितमेव वल्लभं निजकम् । तत्त्वां विना न भवतीति तेन कुपितं प्रसादयामि त्वाम् ॥ ३३१५ 'अपनी गरजनि बोलियत कहा निहोरो तोहि ।
तू प्यारो मो जीयको मो जिय प्यारो मोहि ॥ ३५१' प्रणयकुपितं नायकमनुनयन्ती नायिका चातुर्येण निजगाढानुरागमपि सूचयति। आह सा-ममैव जीवितस्थितेरपेक्षा । अत एव त्वां कुपितं प्रसादयामि । अन्यथा तव कठोरहृद्यतां पुनः पुनळलीकशतानि चानुभवन्ती का वा खतोनुनेतुमनुमन्येत । विहारिणो नायिकाह-'अहं निजस्यावश्यकतानुरोधेनैव त्वया सह संलपामि । न तवोपरि कश्चिदुपकारभारः । यतः किल स्वजीवितं मम प्रियम् । मम 'जीवस्य' (प्राणानां कृते) च त्वं प्रियः।' गाथार्थमविकलमुजहार विहारी। न कश्चिद्दयोस्तात्पर्ये भेदः। परं किञ्चिन्मार्मिकतया विमर्श तु उपजीव्योपजीवकयोर्दातृप्रतिग्रहीनोश्च भेदः स्पष्टं प्रतीतो भवेत् । विहारी कथयति 'तू प्यारो मो जीयको' त्वं मम जीवस्य कृते प्रियः । गाथा आह'तत्' (जीवितं) त्वां विना न भवति' । त्वं मम प्राणानां कृते केवलं प्रिय एव न, तेषां स्थितिरेव त्वदधीना। त्वां विना मम जीवितसत्तैव नास्तीति द्वयोरुत्योस्तारतम्यं . स्थूलैरपि वेद्यम् । विहारिणोनुसारं प्रियतमो जीवस्य प्रिय उक्तः । परं प्रियतमस्याभावे तस्याप्यभावः स्यादेतन्न प्रतीयते। प्रियवस्तुनोपहरणेपि संतोषः कर्तव्य एव भवति । परं गाथा प्रियतामानं नाह । सा कथयति-तन्मे जीवितं त्वां विना भवत्येव न ।
किश्च-एकमात्रेण पदेन सर्वमप्यर्थजातं गाथाकारेण शतगुणितीकृतम् । विहारिवराको न तत्सीमानमपि पस्पर्श । तत्किल पदम् ‘एव' इति । गाथा आह-'मम जीवितमेव वल्लभं निजकम्' । 'हे प्रिय त्वमपि मे वल्लभः। मम जीवोपि मे वल्लभः । परमेवं प्राणसंशयस्थाने तु मम जीवितमेव मे वल्लभम् ।' मन्ये प्रियोपि नात्र विसंवदेत । दह्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org