________________
भूमिका । भवेत् । विहारिणो नायिका मुग्धा गृह्या च। अत एव तत्सखी तत्परिखेदकं नायकं निर्दयमेव निर्दिशेत्। परं गाथाया नायिका सामान्या । वक्त्री च भुजङ्गसंग्राहिका कुटनी । अत्र युपभोक्ता सुरतोपचारचातुर्यमेव द्रष्टुं कामयते । स्वयं च निजवैदग्ध्यं प्रकाशयति । तत्र दयनीयतादर्शनमवैदग्ध्यमेव प्रकटयेत् । अत्र त्वयमेवोपालम्भः स्थाने यत्स यद्यप्यात्मानमेवंविधकर्मणि विदग्धं भावयति परं सहजसुकुमारीमपि नायिकां न तथानुवर्तमानः केवलं दुर्विदग्ध एव । अनेन दुहितुः कामकलाकौशलं कोमलता चेत्युभयमपि ध्वनितं भवति । इदानी द्वयोरौचित्यं सहृदयविमर्शनीयम् ।
'स्फुरिते वामाक्षि! त्वयि यद्येष्यति स प्रियोद्य तत्सुचिरम् ।
संमील्य दक्षिणं तत्प्रेक्षिप्येहं त्वयैवैतम् ॥ २॥३७' 'बाम बाहु फरकत सिलें, जो हरि जीवनम्ररि ।
तो तोही सो भेटिहों, राखि दाहिनी दूरि ॥ १४२' वामबाहो ! त्वयि स्फुरति जीवातुर्हरियद्यागच्छेत् तर्हि दक्षिणं बाहुं दूरीकृत्य त्वयैवैनमाश्लिक्ष्यामि । भावो द्वयोरेक एव । गाथायां स्फुरणद्वारा शुभशंसकाय वामनयनाय फलसिद्धौ समुचितपारितोषिकप्रदानं प्रतिज्ञातम् । दोहापद्ये वामबाहवे तदुचितं पारितोषिकमभिकल्पितम्। एवं सत्यपि गाथायां 'सुचिरम्' इति सुतरां संतोषकमधिकमुपात्तम् । दोहापद्ये वामबाहुना आलिङ्गनमानं प्रतिश्रुतम् । समयस्त्वनियतः । कदाचन कतिपयक्षणेभ्य एव एकवारमात्रं वामवाहवे अवसरं प्रदाय ततो दक्षिण एव बाहुर्व्याप्रियेत तदपि संभवेत् । किञ्च 'भेंटना' (मेलनम् ) यस्य नाम तद्धि द्वाभ्यामेव बाहुभ्यां सुकरतया संभवेत् नैकेन । दर्शनं त्वेकेनापि नेत्रेण भवति । सुचिरं च संभवति । येभ्यः किलैकमेव नेत्रमीश्वरेण वितीर्ण तेपि सर्व नयनकार्य साधयन्येव । परं येषामेको बाहुः स्कन्धपर्यन्तं छिन्नो भवेदपरश्च समग्रो भवेत्ते एकेन बाहुना यथावत्परिरंभणं कर्तुं शक्नुयुर्न वेति स्वयमेव सहृदयैर्विमर्शनीयम् ।
'वहति वधूनवयौवनमनोहराणि हि यथा यथाङ्गानि । कृशति नु तथा तथास्या मध्यो दयितः सपत्नश्च ॥ ३॥९२' 'देह दुलहियाकी बढे ज्यों ज्यों जोवन जोति ।
त्या त्यौं लखि सौतें सवै बद्न मलिन दुति होति ॥' यथा यथा नववध्वा वपुषि यौवनविभा वर्द्धते तथा तथा सपत्नीनां मुखकान्तिर्मलिना भवति । द्वयोरविकलं स एव भावः । स एव च वचनक्रमः। द्वे अपि सूक्ती अलङ्कारोद्भासिते । वध्वा नवयौवनज्योतिरुदयरूपेण गुणेन सपत्नीनां मुखमालिन्यरूपदोषोदयादुल्लासालंकारो विहारिसूक्तौ। व्रजभाषायाः पीयूषमधुराण्यक्षराणि । विहारिसदृशश्च प्रवक्ता। किमत्र वक्तव्यम् । परं गाथायामर्थसमुच्चयस्य परा काष्ठा । दोहापद्ये ईर्ष्यावशात् केवलं सपत्नीनामेव कान्तिक्षतिरुक्ता । गाथायां तु सहैव श्रोण्यास्तनुता, अत्यासक्त्या दयित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org