________________
भूमिका । रेण समुचितमधिकारं वहन्नालोचकमहाभागो गाथाकारेण सह परिहासौचित्यमप्यग्रे प्रकाशयति, आह सः-"आखें देखना नहीं जानतीं क्यों ? कोई विचित्र बीमारी तो नहीं है ? कहीं चित्रलिखित आंखें तो नहीं हैं ?" अत्र द्रष्टुं न जानन्तीत्यस्य प्रख्यातमप्यर्थान्तरसंक्रमितं वाच्यं यः किल महाभागो द्रष्टुमपि न जानाति सोऽपि गाथाकारेण सह एवं परिहासधाष्य प्रकाशयतीत्यही बलवती नियतिः !!
'यों दलमलियत निरदई, दई कुसुमसे गात ।
कर धर देखो धरधरा, अजो न उरको जात ॥ २२८' 'सहते सहत इतीयं रमितैवं सुरतदुर्विदग्धेन ।
म्लानशिरीषाणीव हि जातान्यस्या यथाङ्गानि ॥१५५' विहारिपद्ये-सुरतान्ते नायिकासख्या उपालम्भः। 'अयि निर्दय ! एवमपि किमामयेते ? हे दैव ! अस्याः किल कुसुमसदृशान्यजकानि। उरसि करं विन्यस्य पश्य, अस्या हृदयकम्पो नाधुनापि विरमति।'
गाथायां सामान्यनायिकाया माता भुजङ्गान्तरप्ररोचनाय दुहितुः सौकुमार्यातिशयं सुरतसुखावहत्वं च सूचयति। विहारिकाव्ये सामान्यकुसुममात्रस्य सादृश्यमङ्गे दीयते, गाथायां तु शिरीषकुसुमस्य, यद्धि जगतः सर्वेभ्योपि कुसुमेभ्यः कोमलम् । आह कालिदासः-'पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः' । ततश्च-अतिशयितकोमलाङ्ग्यपि सेयं तथा रमिता, यथास्या अङ्गानि प्रम्लानशिरीषाणीव जातानि । ततश्च सर्वाङ्गव्यापी एतस्या अवसादः । अत एवैतस्याः प्रेयान् दुर्विदग्धः। सुरतोपचारचातुर्यानभिज्ञोपि आत्मानं तथा मन्यते इति तत्तात्पर्यम् । गाथायां सर्वाङ्गव्यापिनमवसादं स्फुट प्रत्याय्य नायिकायाः सौकुमार्यातिशयस्तत्संभोक्तुर्दुर्विदग्धत्वं च साध्यते । विहारिपद्ये तु गानाणामवसादः स्पष्टं न प्रत्याय्यते, किंतु उरःकम्पमात्रं निर्दिश्यते, यद्धि भयमात्रादपि संभवति ।
अत्र यस्मिन्प्रसङ्गे दुर्विदग्धपदं गाथया प्रयुक्तं तत्स्थाने भूमण्डलस्य कापि भाषा शब्दान्तरं स्थापयितुं न प्रभवेत् । तथा विदग्धः अभवन्नपि तादृशमात्मानं मन्यमानश्च किञ्चिद् धृष्टश्च यो भवति तं किलैतत्पदं सूचयति । नास्य प्रतिशब्दः कुत्रचिल्लभ्येत । समालोचकमहाभागो ह्येतदर्थसूचकं हिन्दीशब्दं तु कञ्चन निर्दशतु ! मन्येहमेवंविधमर्थसमर्पकं पदं नान्यभाषायां विलोक्येत । एतस्यातिशयो निष्पक्षपातया मत्या मार्मिकैः स्फुटमवगम्येत । इदानीं दृश्यताम्-ब्रजभाषायां 'चितवन' 'सुजनादि'पदान्यालोक्य यथा किल समालोचकमहाभागः सशिरःकम्पमन्वमोदत तथा किं संस्कृतज्ञा एवंविधपदानि नामिनन्देयुः? सत्यं त्वेतत्-तत्तद्भाषानुकूलानि भवन्ति कानिचन पदानि यानि तस्यां भाषायामेव सुभृशमभिरुचिं पुष्यन्ति । परं यः किल व्यङ्ग्योर्थः स तु पदबन्धनिरपेक्षः कश्चिदन्य एव यो झुत्तमकाव्ये प्राधान्येन परामृश्यते । अस्तु. एवं सत्यपि दुर्विदग्धपदापेक्षया 'निरदई' पदे औचित्यमित्यालोचकमहाभाग आह । परं द्वयोः प्रकरणोपरि पुनदृष्टिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org