________________
भूमिका |
४१
दाय सेयं गाथा निगुम्फिता तत्र कविना सफलता प्राप्ता, न वेति । सपत्नीनां विभवातिशयमालोक्यापमानेन ग्लायन्तीं सुभगां नववधूं 'वैभवापेक्षयापि प्रियतमप्रणय एव गरीयान्' इति प्रबोधयन्ती तत्सखी सान्त्वयति । गाथागृहीतपदैः किं किं किल चमत्कारकमभिव्यज्यते तत्तु तद्व्याख्यालोकनेन विशदं भवेत् परं दोहाच्छन्दसो नायिका यथा रतिमर्दितेन वस्त्रेणापि सपत्नीनां मानमर्दनं करोति तथा शिखिपिच्छमात्राभरणा गाथाया नायिका महामूल्यगजमौक्तिकमण्डितानामपि सपत्नीनां पुरो भ्रमन्ती तासां गर्वगञ्जनं करोतीति कस्य न साम्यमवगतं भवेत् ? इदानीं द्वयोस्तारतम्यं सहृदयाधीनं कृत्वा प्रकृतमनुसरामि-
'अज्यों न आये सहजरंग विरह दूबरे गात ।
अबही कहा चलाइयत ललन चलनकी बात ॥ ( १३० ) '
एतस्याधारगाथा---
'हो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य । नाद्यापि हन्त सरला भवन्ति वेण्यास्तरङ्गिणश्चिकुराः || ३|७३'
अस्या गाथाया व्याख्या तदुपरिकृतायाः समालोचनायाश्चालोचना चापि ग्रन्थाभ्यन्तर एव विलोकनीया । नेह पुनराम्रज्यते । 'अज्यों न आये सहजरँग' तथा 'अबही कहा चलाइयत' इति चरणाभ्यां प्रवासे शीघ्रतानिवारणमभिप्रेतमिति साधारणोपि पुमान्परिज्ञास्यति । ततश्च प्रतिदिनं प्रसाधनेन सरलीक्रियमाणानां केशानां पूर्वावस्थापेक्षया रसरक्ताद्युपचयजन्या शरीरशोभा अवश्यं परतोभाविनी । एवं च प्रवाससाक्षिणः केशा अपि सरला न जाता भवस्तु पुनः प्रवासं चिन्तयतीति गमनशीघ्रताकृतं नायकस्य कठिनहृदयत्वं गाथैवाधिकं सूचितवतीत्यालोचनायामुक्तमेव ।
'अनियारे दीरघ हगनि, किती न तरुनि समान ।
वह चितवन और कछू, जिहिं बस होत सुजान ॥ ६७१' 'सन्ति मुखेन्यासामपि पक्ष्मलधवलानि दीर्घकृष्णानि । नयनानि सुन्दरीणां तदपि द्रष्टुं न जानन्ति ॥ ५/७० '
अत्र 'द्रष्टुं न जानन्ति' इति असंलक्ष्यक्रमव्यङ्ग्यध्वं निरिति समालोचकचक्रचूडामणिना न जाने कतमस्य जगतः साहित्येऽधीतम् ! 'रसभावतदाभासभावशान्त्यादिरक्रमः' इति साधारण साहित्यवेद्यपि जानीयात् । किञ्च यः असंलक्ष्यक्रमव्यङ्ग्यध्वनिः ( रसादिः ) स किल चमत्कारमाविष्करोति, उत तमाच्छादयति ? रसोपि यदि चमत्कारविघातकस्तर्हि नमः कवितायै !! अस्तु भारतीय साहित्यस्य मौलिभूतानां गाथानामालोचने एवंप्रका
१ 'यहां 'द्रष्टुं न जानन्ति' की असंलक्ष्यक्रमव्यङ्ग्यध्वनिनें गाथा के चमत्कारपर कुछ भारी सा पर्दा डाल दिया है' । विहारीकी सतसई (पहला भाग ) । 'बेताब प्रिंटिंग वर्क्स' भत्र प्रकाशितं द्वितीयं संस्करणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org