________________
भूमिका। कायाः परमं नैपुण्यमुत्कर्षश्चात्र ध्वन्यते । आन्तरिकैर्गुणैर्यया प्रथमत एव प्रियतमो वशीकृतस्तस्या मे सविधे मज्जनादिना शरीरं परिशोभ्य प्रियतमप्रसादमिदानीमिच्छन्त्यो यूयं कं वा महिमानं प्रकाशयितुमिच्छथेति तदाशयः । अत्र हि स्नानं न प्रतिषिध्यते परं तत्प्रति सपत्नीनां यथा आदरस्तथा नेति 'मजनानादर'पदेन स्पष्टमेवाक्षरमुखानाम् । __ अत्र महाबुद्धयः केचिदालोचकचूडामणयः संजीवनभाष्यभूमिकायां गाथासप्तशत्यमरुकादिभ्यो विहारिसप्तशत्याः परमोत्कर्ष साधयन्तः कथयन्ति-"चाहै कुछभी हो, यह स्नान न करनेकी बात कुछ अच्छी नहीं हुई। ऐसाभी क्या सौभाग्यगर्व जो इस दशाविशेषमें अवश्य कर्तव्यकर्म( स्नान)काभी अनादर करा दे यह स्पष्टही अनौचित्य है।"
इदं त्ववश्यमौचित्यं स्यात्-यद् गाथायां मजनं प्रत्यनादरो वर्णितः श्रीमता तु स्नानस्याकरणमेवोद्घोषितम् । सपत्यः 'हल्लफलेण' उत्साहचञ्चलतया मजनं कुर्वत्यस्तेन चात्मानं प्रसाधयन्त्यः स्नानं प्रति सुमहान्तं बहुमानं प्रदर्शयन्ति । आयों तु मज्जनं प्रत्यनादरं प्रदर्शयन्ती सौभाग्यमवचनं कथयति । अनयोर्द्वयोः प्रतिबिम्बभावः समालोचकचूडामणेन दृष्टिगोचरोऽभवत् । उत्साहरभसेन स्नानं कुर्वत्यः सपन्यः स्नानं प्रति यावन्तमादरं दशेयन्ति, आन्तरेण गुणगणेन मण्डिता आयो बहिःशरीरप्रसाधकं स्नानं प्रति तावन्तमेवानादरं दर्शयतीति तदाशयः । यद्यपि मजनं प्रत्यनादरो मुखतो वर्णितः, परं सपत्नीः प्रत्यनादरः फलितो व्यञ्जनया प्रतीयते । आर्या मुखेन निजसौभाग्यं नोद्घोषयति परं स्नानं प्रति बहुमानाभावो वचनचर्चा विनापि प्रसह्य स्वयमेव तत्सौभाग्यं जल्पतीति 'कथितमिवे'त्युत्प्रेक्षणस्य सौष्ठवम् ।। __ न प्रतीमो यदुपरिवर्णिते संदर्भशरीरे क ताक्दनौचित्यपिशाच आविष्टः ! शरीरोन्मईनपूर्वकं फेनकादिद्वारा सोत्साहमजननिमग्नानां सपत्नीनां पुरतो गुणगणमण्डनेन खाधीनीकृतभर्तृकाऽऽर्या, अवश्यकर्तव्यतया साधारणभूते स्नाने कञ्चिदप्युत्साहमादरं च न प्रकटयति, प्रत्युत प्रियप्रतारणफलकं बाह्यमेतादृशं कृत्रिमायोजन प्रति मनखितया अवज्ञा प्रदर्शयति । वचनं विनाप्यात्मनः सौभाग्यनिर्वचनं ह्येतद् गाथाया अप्यनक्षरं सौभाग्यकथनं प्रथयतीति को वा मार्मिको न मंस्यते। एतादृशस्यापि गुम्फस्य अनौचित्यमुद्रयाऽङ्कनं किमालोचकस्यौचित्यं सूचयेत् ? 'अश्रद्धया कृतं दत्तम्' यथा अकृतं मन्यन्ते धार्मिकास्तथैव अवज्ञया कृतं स्नानमकृतमेव चेन्मन्येत, तर्हि तु सम्यगेव । __ समालोचकचूडामणेर्दृष्टिः कदाचिन्न पतिता भवेत्परम् 'तीज परब.' इत्यादिदोहानिगुम्फनात्पूर्व विहारिमहाकवेरवश्यं वक्ष्यमाणाया अपि गाथाया उपरि पतितास्ति, यस्याश्छायास्मिन्पये प्रलोक्यते । सा किल गाथा
शिखिपिच्छकावतंसा व्याधवधूगर्विता भ्रमति ।
गजमौक्तिकपरिरचितप्रसाधनानां पुरः सपत्नीनाम् ॥ (२०७३) अस्यां गाथायां के वा ध्वनयः कश्च चमत्कारस्तदिह न प्रपश्च्य द्वितीयशतकस्य त्रिसप्ततितमां गाथां पठितुं प्रार्थये । एतद्विलोकनेन सचेतसा स्पष्टं भवेत् यद्यं किल प्रसङ्गमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org