SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ भूमिका। अस्तु. आलोचनायां कया वा दृष्ट्या समीक्षणीयमिति खावलम्बितां दिशं प्रदर्यविहारिकृतं गाथार्थोपजीवनमुल्लिखाम्यधस्तात् । स्थाने स्थाने आलोचनाया उपरि मत्कृता टिप्पण्यप्युल्लिखिता। अयं विषयो मत्कृतसाहित्यवैभवस्य 'विहारिविलासे' [यत्र विहारिदोहानी संस्कृते समपद्यानुवादः ] जयपुरवैभवस्य भूमिकायां चाप्यालोचितः। गाथापेक्षया विहारिकृतेरुत्कर्ष साधयतः समालोचकचूडामणेः प्रथमं पद्यम् नहि पराग नहिं मधुरमधु नहि विकास इहि काल । __ अली कलीही तें बँध्यो आगे कौन हवाल ॥ अत्र हि 'जाव ण कोसविकासम्०' इत्यादिपञ्चमशतकस्थचतुश्चत्वारिंशत्तमगाथात उत्कर्षः साधितः । अस्य प्रत्यालोचना (५।४४ ) गाथायां मया हि मत्कृतटीकायां विस्तृत्य कृतेति तत एव मार्मिकैस्तत्तत्त्वमधिगन्तव्यम् , किं वात्र पुनरुक्त्या । आलोचनायां द्वितीयं पद्यम् 'तीज परब सौतिन सजे, भूषन बसन सरीर। सबै मरगजे मुँह करौं, वहै मरगजे चीर ३३३ ॥' [श्रावणतृतीयोत्सवे सपत्नीभिरङ्गकेषु भूषण-वसनान्यासजितानि । परं नायिकाया रतिमर्दितेन तेन वस्त्रेण सर्वा अपि ताः (शृङ्गारिताः सपत्न्यः) 'मरगजे मुँह' (विच्छायवदनाः) कृताः । रात्रौ प्रियसंभोगेन विलुलितवसनाया अस्याः प्रियतमस्वाधीनीकरणरूपं सौभाग्यं विलोक्य-एतदवधिप्रियसौभाग्यवञ्चितानि विफलप्रायाणि भूषणवसनानि साम्प्रतं प्रियप्रसादनेच्छया कुर्वत्यो विवर्णवदना अभूवन्नित्याशयः] मुखमालिन्येन नायिका प्रतीया व्यज्यते । तया च प्रियतमालम्बना रतिः पुष्यतीति विहारितात्पर्यम् । यस्या गाथाया अत्र छाया गृहीता सा किलउत्साहरभसमजनविमण्डितानां क्षणे सपत्नीनाम् । कथितमिव मजनाऽनारेण सौभाग्यमार्यया नूनम् ॥ १७९ मजनप्रसाधितानामस्माकं प्रियो वश्यः स्यादित्युत्साहजनितेन रभसेन यन्मजनं तेन प्रसाधितानां सपत्नीनां मध्ये, क्षणे उत्सवदिवसे आर्यया गुणौदार्येण श्रेष्ठया ( तया नायिकया) मजनस्यानादरेण सौभाग्यं कथितमिव । भवत्यो मजनादिना शरीरं प्रसाध्य साम्प्रतं प्रियतमं वशयितुमिच्छथ, परं गुणगणवशीकृतो दयितः पूर्वत एव मे वचनानु. गत इति स्नानं प्रति बहुमानाऽप्रदर्शनेन नायिकाया गर्वो व्यज्यते । सोऽयं विव्वोकाख्यो नायिकानामलङ्कार उक्तः-'विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेप्यनादरः'। उपरितः शरीरं प्रसाध्य नायकमनुकूलयितुमिच्छन्तीनां सपत्नीनां प्रातिद्वन्ध्ये आर्यायाः (गुणगणौदार्यादिमिः श्रेष्ठायाः) गुणगणद्वारा दृढं प्रियतमवशीकरणं सूचयन्त्या नायि १ भूमिकायामालोचनाप्रसङ्गेण यत्र यत्र गाथा उद्धृतास्तत्र संस्कृतगाथा एवोल्लिखिताः, बोधसौकर्यात् । मूलजिज्ञासुभिर्ग्रन्थान्तस्ता अवलोकनीयाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy