SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ भूमिका। कुर्वन्तः स्थाने स्थाने 'वर्ण्य विषयः खायत्तीकृतः' [ 'मजमून छीनलिया'] 'क्रोशान् पश्चात्यक्ताः' [कोसों पीछे छोड दिया' ] इत्यादिकमुत्कर्ष नाटयन्ति । अस्तु. सम्यगेवेदम् । स्त्रवर्ण्यस्य प्रशंसागीतिः स्थान एव । किन्तु साहित्यरङ्गस्थले द्वयोस्तत्त्वमीमांसायां कस्यात्रोत्कर्ष इति निष्पक्षपातमालोचनीयमेव भवेत् । बहुतरं संभवो यद् गाथाकारादिभिर्या किल नवीननवीना कल्पना स्वयं खप्रतिभयोद्भाविता, पूर्वसिद्धां तामविकलमुपजीव्य तदर्थाहरणोत्तरं तत्सम्बन्धे विहारिणा काचन समञ्जसतापि संपादिता स्यात् । परं येन महाकविना नवीना सा कल्पना स्वयमाविष्कृता तस्योत्कर्षः, आहोस्विद्येन तां कल्पनां भित्तीकृत्य यत्किञ्चिन्नवीनमुदितं तस्य ? एकश्चित्रकारः शून्यायां मित्तौ शास्त्रोक्तं तत्परिशोधनं विधाय, तदुपरि सूत्रेण मानरेखाः समुत्कीर्य, इदंप्रथमतया नानारङ्गैः सुमनोहर चित्रमुद्भावयति, नानाभावांश्च तत्र प्रकटयितुमात्मकलापाटवं प्रदर्शयति । अन्यस्तु कश्चिच्चित्रकरः पूर्वचित्रकारेण लिखिते सिद्धे तस्मिंश्चित्रे यत्किञ्चित्पुष्पपत्रादिकं वा रेखाबिन्द्रादिकं वा स्वलेखन्योत्कीर्य तचित्रं लोकानां दृष्टौ मनोहरीकुरुते। इदानी द्वयोः कृतिता निष्पक्षपातया दृशा समीक्षणीया भवेत् । येन हि तच्चित्रमिदंप्रथमतया स्वप्रतिभया उद्भावितं तस्य महत्त्वमुत येनैकद्वे पुष्पपत्रे तत्रालिखिते तस्य गौरवम् ? किञ्च समालोचकमहाभागेन विहारिकृती-'कीदृशं मनोहरं पदम्' 'अहो कीदृशी सूक्तिः !''मरगजे' चीरने दोहेको चमका दिया है 'सबै मरगजे मुँह किये वहै मरगजे चीर ३३३' 'सुजान' पद कविताकी जान है। 'चितवन' तुम्हारी चितवनकी ताब भला कौन ला सकता है 'वह चितवन औरै कछू जिहिँ बस होत सुजान ६७१' ] इति प्रायः शब्दगतं माधुर्य मेव साधितं सर्वात्मना। परं बहुत्र ध्वनिकृतं यद् गाथाया महत्त्वं तत्प्रति दृष्टिरेव न कृता, प्रत्युत आलोचनायामुर्दू मिश्रभाषाचमत्कारमात्रेण वाचकानां मन आच्छिद्य ध्वनिविचारं प्रत्यवधानमेव तिरोधातुं चेष्टितम् । गाथायाः किल ध्वनिकृतमेव महत्त्वमिति न विस्मर्तव्यं भवेत् । एनं गुणमुद्दिश्यैव संस्कृतभाषापक्षपातिभिरपि साहित्यनिबन्धकारैः सेयं सप्तशती स्वनिबन्धेषूदाहरणरूपेण परिगृहीतेति पूर्वमुक्तवानस्मि । भाषा हि विचाराणां बाह्यं परिधानमात्रम् । समयपरिवर्तनेन भाषां प्रति लोकानां मनोरुचिः परिवर्तमाना दृश्यते। एकः स समय आसीद्यत्र वैदिकभाषायां कृतसंस्कारतया सुभृशं परिमृष्टरूपया श्रीमत्या संस्कृतभाषया संस्कृतेत्यमरगिरेति च गौरवमासादितम् । तदनन्तरं सोऽपि समय आजगाम यत्र संस्कृतभाषा अमधुरा, प्राकृतभाषा च सुमधुरा पर्यगण्यत ! इदानीं वय मिममपि समयमवलोकयामहे यत्र प्राकृतमप्यवहेल्य-'गाथ मरगजे मुंह करी वहै मरगजे चीर' [ मर्दितवस्त्रेण गाथाया मुखमर्दनं कृतम् ] इति जनसमाजादाकर्णयामः। परं नात्र व्यामुह्यते तत्त्वपरिशीलकैः । भाषा किल रुचिमनुसृत्य समयानुरोधेन परिवर्तते, किन्तु कवितायां यः किल व्यङ्ग्यार्थकृतो जीवभूतश्चमत्कारः स किल युगपरिच्छेदशून्यः सर्वदैव जनेभ्यः सत्कारमवाप्तवान् , अवाप्नुते, अवाप्स्यते च । 'उक्तिविसेसो कन्वो भाषा जा होइ सा होई' इति केन वा न विदितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy