________________
भूमिका ।
वा पदपरामर्शस्य कथा । परमुपालभ्येऽर्थे य उत्कर्षः स मार्मिकैगूढमाखादनीय एव । एवं गाथानुकारेणार्थमुपनिवघ्नन्नपि कथमिव पश्चात्पदो भवत्यार्याकार इति विमृश्यताम् । दृश्यतां चाधुना औचित्यस्य कथा। यत्र हि गाथायाम्-'द्वितीयस्याः सङ्गेन त्वं कृशोसीति स्नेहवशान्मनसि खिद्यमानापि त्वदुपेक्षिताहं संप्रति दूरतश्चरणप्रणाममेव करोमि' इति विदग्धमुपालभ्यते, तत्र आर्यायां कृशतामेव कारणीकृत्य नायिका रौद्ररूपं धारयति-परपतिनिर्दय० (३९३)। ___ एवं प्रतीयते, यदतिक्रोधेन आर्यावर्णिता नायिका खस्य पत्नीत्वमेव किं निसर्गमार्दवानुरोधि स्त्रीत्वमपि विस्मरति । अन्यथा 'कुलटाशोषित ! शठ !' इत्यादिपदानि कथं मुखादुद्गच्छेयुः । किञ्च 'रोदिमि तव तानवं वीक्ष्ये' त्यमिक्रोशस्तु स्पष्टं जगुर्जरीणां भर्तृकलहकेलिं चित्रयति ।
द्वितीयासङ्गकृशानेंत्यपूर्वश्लेषानुप्राणितः सोयं गाथावर्णितश्चन्द्रोपमार्थोप्यायकारेणोपजीवितः-'सत्यं मधुरो०' (६८२)। अत्र हि-माधुर्यादिगुण विशिष्टोपि दयितो द्वितीयां स्त्रियं तथा न जानाति यथा तादृशगुणः प्रतिपच्चन्द्रो द्वितीयातिथिमिति प्रियस्य परस्त्रीविमुखत्वेन निजवश्यता सूचिता । गाथायां त्वन्यासक्तं दयितं प्रत्युपालम्भ इत्यर्थपरिवर्तनम् । किञ्च श्लेषमार्गेण प्रियस्य चन्द्रसादृश्यं साधयन्त्येकाऽन्यापि गाथा दृश्यते-- 'दृश्यमानो नयनसुखो० ५।२१।' एवमनयोः सप्तशत्योः किञ्चिद्वृत्तमावेदितम्
सूक्तिक्षोदनमेतद्धि तारतम्यविनोदनम् । गोवर्द्धनोन्यथा कस्य भवेन्नानन्दवर्द्धनः॥
गाथासप्तशती 'विहारीसतसई' च ब्रजभाषायाः साहित्यं संस्कृतसाहित्यमुपजीव्यैव सम्पन्नमिति सर्वेपि स्त्रीकुर्वन्ति । अत 'एव ब्रजभाषायां दोहाछन्दस्सु मुक्तककाव्यनिर्माता विहारिमहाभागोपि यदि गाथासप्तशती-अमरुशतक-आर्यासप्तशतीप्रभृतीन्युपजिजीव तर्हि किं वाधिकम् । अतिप्राचीना या हि गाथासप्तशती अमरुकप्रभृतिभिः सुप्रथितैः संस्कृतनिबन्धकारैरप्याश्रिता तर्हि व्रजभाषायाः कवयितुः पक्षे नेदमवधीरणायै । विहारिमहाभागस्य कृतिर्गाथासप्तशतीप्रभृतिभ्यः संस्कृतकाव्येभ्यः सुबहुतरमर्वाचीना । प्राक्तना भाषाकवयः संस्कृतसाहित्याध्ययनेन प्रोज्जृम्भितप्रतिभा एव खावलम्बितभाषायाः सूक्तिगुम्फने साफल्यमवापुः । अत एवैषां रचनासु संस्कृतनिबन्धाश्रय एव प्रधानमवलम्बनमभूत् ।
विहारिणा येषां संस्कृतमहाकवीनामर्थ उपजीवितस्तान्प्रति निजरचनायां वचसा विनयः कामं न प्रकटितो भवेत्परं मनस्यवश्यमेषामुपकारकार्तझ्यं स्यादिति को वा न मन्वीत । किन्तु साम्प्रतिकाः केचन समालोचकचूडामणयो विहारिकृतेर्गाथादिभिस्तुलना
सं. गाथा. 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org