________________
भूमिका ।
आर्यासप्तशत्या नायिका तु वल्लभस्य शरीरकृशतां वीक्ष्य वह्निरिव जाज्वल्यमाना नायकं यैरक्षरैरुपालभते तानि तां रुद्ररूपे परिणमयन्ति । आह सा
३६
परपति निर्दय कुलटाशोषित शठ नेर्घ्यया न कोपेन । दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥ ३९३ ॥
परपतिषु शरीरसारशोषणान्निर्दया याः कुलटाः [ याः किल न त्वय्येव परमनेकेषु पुरुषेषु रताः ] ताभिः हृतशरीरसारतया शोषित ! किञ्च कपटवचनैर्व्यामोहकतया हो शठ ! ईर्ष्याया कोपेन वा नाहं रोदिमि, किंतु त्वयि येयं मे ममता तत्संतप्ताहं त्वत्कुशतां वीक्ष्य रोदिमि । त्वां प्रत्यहं क्षीयमाणमालोक्य पुटपाकं दह्यमानाहं परवशा रोदिभ्येव । प्रत्यहं लुप्यमानसारं त्वामनुरोदिम्येव । किमन्यत्कुर्याम् ?
इदानीमार्यासप्तशतीचित्रिताया नायिकाया उपालम्भोपि श्रवणीयः - प्रत्यूषागतेत्यादिगाथायां यथा सूर्यविषयकं वाच्यार्थ सूचयन्ती व्यञ्जनया नायकमुपालभते, अत्राप्यविकलं सैव गाथाऽनुकृता । आह सा
कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।
रविवि यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥ १६५ ॥ तत्र नखभूषण अत्र 'कररुहशिखानिखात' । तत्र अन्यत्रक्षपितशर्वरीक, अत्र 'रजनिदुरखाप' । तत्र प्रत्यूषागत, अत्र 'भ्रान्त्वा विश्रान्त' [ रात्रौ अन्यत्र भ्रान्त्वा प्रातर्गृहे आगत ! ] । आर्यायां नवीनोर्थः 'तेजोबाहुल्येन वीक्षितुमशक्यः सूर्यस्त्वष्ट्रा यन्त्रेणोल्लिखितः सन्नल्पतेजस्कतया यथा लोकदृग्विषयोऽभवत्तथा त्वमपि सततसमागमेन कृशोपि सपत्नीलोकानां दृष्टिं लोभयसि । एतस्य मूलं गाथायां दृश्यतां 'प्रियालोकलोचनानन्द' इति । 'भवत्प्रेयसीनामेव लोचनानि साम्प्रतमानन्दयसि । मम न भाग्यं यद्दर्शनं ते भवेत् । रात्रौ सूर्यस्यादर्शनं यथा स्वाभाविकं तथा रात्रौ ते दर्शनाभावः स्वाभाविक एवेति गूढोभिप्रायः । आर्यायां किलोपालभ्यम् – 'त्वं रात्रौ सपत्नीषु भ्राम्यसि । तत्सङ्गाद्दुर्बलो जातः । त्वं दुर्बलोsन्याभ्य एव रोचसे न मह्यम् ।' इदानीं गाथायामुपालभ्येन तुलनीयमेतत् । प्रत्येकमपि विशेषणमुपालम्भं प्रगुणीकरोति । आर्यायां यानि विशेषणानि तानि तु सन्त्येव । ततोधिकं 'रक्तदेह' इति । इतोऽप्यधिकं सर्वस्याप्युपालम्भस्य मौलिभूतं 'दिनपत' इत्यामन्त्रणम् । ' त्वं मया सह पतिपत्नीसंबन्धं दिनमात्रस्यैव रक्षसि । रात्रौ अन्यत्रैव स सम्बन्धो भवतीति प्रत्यक्षमस्फुटोपि कियन्मर्मस्पृगुपालम्भः । किञ्च - 'यन्त्रोल्लिखित' इत्यस्य प्रतिबिम्बकोटौ 'कररुहशिखानि - खात' इत्यपि न तथाऽर्थं समर्पकः । 'कररुहाणां शिखाभिर्निखात' इत्यत्र क्षतार्थे निखननमेव तावदप्रतीतम् । निखननं हि भूमौ प्रोथनार्थे ( निधानार्थे ) प्रयुज्यते । अस्तु यदि क्षतार्थेऽपि स्वीक्रियेत तर्ह्यपि 'सूर्यो यथा त्वष्ट्रा यन्त्रेणोल्लिखितः, तथा 'कररुह - शिखाभिर्निखात !' इत्यर्थसिद्धौ नायिकानखानां कियद्दीर्घता तीक्ष्णाग्रता छिदुरता च कल्प्या स्यात् ! एवं सति सा विलासिनीषु परिगण्येत उत किष्किन्धावासिनीषु ? गच्छतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org