________________
भूमिका। अत एवाहं कृशा । 'ममैव कृते दुर्बलेयमिति' स्वमात्मनः सौभाग्यं किं बहु मन्यसे ?' अत्र व्यङ्ग्यं तु- भवद्विरहे दौर्बल्यं वहन्त्योऽत एव भवता स्वस्मिन्नतिशयितानुरागिप्योऽनुमितास्ता एव ते विश्वासभाजनभूतास्त्वद्गतप्राणाः । अहं तु त्वयि न स्निह्यामि । अत एव कथं मे त्वदुपेक्षया तानवं भवेत् ।' इति विपरीतलक्षणया कोपातिशयं व्यञ्जयन्त्या सुविदग्धमुपालब्धो दयितः । उपालम्भप्रदानोत्तरं रोदनेन खस्य प्रणयि हृदयं स्पष्टं सूचितं यदहम्-'त्वदुपेक्षयैव दौर्बल्यातिशयात्कण्ठागतप्राणा । अत एव एवंविधप्र. नादिभिरपि मे मर्मवेधो भवति' । सपन्नीसविधतः समागताय दयिताय खण्डिता अतिविदग्धं सूक्ष्मं चोपालभतेप्रत्यूषागत रञ्जितदेह प्रियालोक लोचनानन्द ।
सन्नखमण्डनक नमो दिवसपतेऽन्यत्र नीतरजनीक ॥ ७५३ प्रियाङ्गरागसंक्रमणादलितो देहो यस्य तादृक् । यास्तव एषु दिनेषु प्रियास्तासां लोचनानन्द ! [अनेन-अहं तव साम्प्रतं न प्रियेति वक्रोक्तिः] सपत्नीनखक्षतानि सबहुमानं भूषणतया वहन् ! । नैकद्वौ यामौ एव, अपि तु सर्वा रजनिरेव यापिता येन तादृश! अत एव दिनपते ! दिनमात्रस्यैव कृते मम पतिभूत ! (पातीति रक्षण-पालनमात्रकर्तः ! न तु प्रमोदयितः!) इदानीं तुभ्यं नमः । तवाऽप्रियाया मे संप्रति त्वत्तो दूरस्थितिरेवोचिता ।
इदानीं तव दर्शनमपि पुण्यमहिन्ना कदाचिदेव भवति । त्वमन्यत्रैव बहुतरा रजनीर्गमयसि । दूरे तिष्ठतु मम कार्य प्रति सहानुभूतिः, परं त्वमेव सततसपत्नीगणसमागमाद्दुर्बलो जातः । तदिदं मे दुःखाय । परं किमहं कुर्याम् ? न मां किञ्चिद् गणयसीत्साह सा
अनुभूतः पूर्णदिने सकलकलापूर्ण तव करस्पर्शः। वन्दामहे द्वितीयासङ्गकृशाङ्गाधुना चरणौ ॥ ७।५७ हे सकलकलापूर्ण [अन्यासां सङ्गाय त्वं नानाविधाश्चातुरीरवलम्बसे इति सूचितम् ] प्राकृते 'पुण्णदिअहम्मि' इत्यस्य 'पूर्णादिवसे' तथा 'पुण्यदिवसे' इत्युभयोर्थः। ततश्च यस्मिन्दिनेस्माकं तव करस्पर्शानुग्रहो जातः सोपि कश्चित्पुण्यदिवस एवासीत् इदानीं तु स्पर्शस्य का कथा दर्शनमपि कदाचिदेव भवति । हे चन्द्र ! पूर्णिमादिवस एव तव कराणां स्पर्शोनुभूतः । इदानीं त्वं द्वितीयातिथेः संयोगात्कृशाङ्गोसि । साम्प्रतं तव चरणवन्दनस्यैव योग्यता । व्यञ्जनया तूपालभते-द्वितीयस्याः सङ्गतस्त्वं कृशशरीरोसीति स्नेहवशान्मनसि खिद्यमानापि त्वयोपेक्षिताहं संप्रति त्वचरणप्रणाममेव करोमि, दूरतस्तव चरणवन्दनपूर्वकं विसर्जनमेव मे समुचितमित्याशयः । द्वितीयातिथेश्चन्द्रः अतिलालसया यथा वीक्ष्यते तथा कदाचिदेव दर्शनं प्रयच्छंस्त्वमप्यस्माकं कृते द्वितीयाचन्द्रोसि संवृत्तः। अहो ते भय्यनुग्रहः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org