________________
३४
भूमिका ।
अनेन स्पष्टं प्रतीयते यदियमस्तीति लोकानामनादरभाजनम् । नेयं सत्सु परिग घ्यत इति नास्याश्चरित्रं लोकानामनुगम्यम् । उचितं चैतत् । यद्धि काव्यं 'रामादिवद्वतितव्यं न रावणादिवत्' इति लोकशिक्षायै उपनिबद्धं तत्र स्पष्टमनाचारोद्घोषः किं श्रेयसे ? यद्यपि हीनमिदं चरित्रं ' त्यक्तव्यम्' इति लोकशिक्षायै एवोपनिबद्धमिति वत्रापि समाधातुं शक्येत । परं यावत्किल कविः केनापि पदेन खस्यानभिमतिं तत्र न सूचयति तावत्स्पष्टमरुचिर्न प्रत्येतुं शक्येत । गाथासु सर्वत्रैव तथा चिह्नं निर्दिष्टं कदाचिन्न भवेत्परं बहुत्र तादृक्संकेतो व्यञ्जनया कृत इति मयाऽन्वभावि । दृश्यताम् - निष्पश्चिमानि० २।४१, बहलतिमिरस्य ० २२६६, कार्पासवप्रकर्षण० २६५, पानेन भोजनेन च ७।६२, इत्यादिषु विगुणचरित्रेषु असतीत्यादिररुचिमुद्रा स्पष्टमङ्कितास्ति । आर्याकारनिबद्धाऽन्यापि शृङ्गारसूतिराकर्ण्यताम् —
प्रेतैः : प्रशस्तसत्वा साश्रु वृकैर्वीक्षिता स्खलद्ग्रासैः । चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥ ३९५ ॥
यावत्किल अन्तिमं ‘बाला' पदं न कर्णयोः पतति तावद् अक्षरद्वयरहिता सर्वाप्यार्या भूतमुखान्निर्गच्छन्त्या उल्कायाः प्रकाशे शवस्य वदनमाखादयन्त्याः कस्याश्चन शाकिन्या भूतभामिन्या वा श्मशानविहरणवर्णनं प्रतीयते । 'बाला' पदश्रवणेपि, मृतस्येतिपदेन सह यावत्प्रियस्येत्यादि विशेषणं नाक्षिप्येत तावन्मृतस्येति पदं ( 'मुर्दा' ) शवार्थमेव बोधयेत् । एवंभयानकरसेन शृङ्गाररसस्यावतारः कथमिवाङ्गीकृत इति न जानीमः । भयानकस्य बीभत्सस्य करुणस्यैव वा यत्रैतावती सामग्री तत्र केवलं 'बाला' कथमिव शृङ्गारं साधयतु । कियद्वा वराकी टीका समादधातु । चित्रं चित्रमियमपि बाला ! अहो बालापदस्य स्वारस्यम् !
स्थूलं विषयमवलम्ब्य, एवमियं द्वयोः सप्तशत्योस्तुलना दिक्प्रकटिता । इदानीं मर्मणि निविश्य मीमांसनीयमेकमंशम् 'वर्णिका' [ 'बानगी' ] रूपेण निवेद्य तमिममालोचनाडम्बरमुपसंहरामि ।
गाथाया नायिका मानमुपगतापि विदग्धजनोचितया मर्यादया अतिगूढमुपालभते । सा हि नायकव्यलीकैः खेदितापि महिलाजनोचितं मार्दवं न विमुञ्चति । नागरनितम्बिनीभिरनुवर्तनीयं नैपुण्यं न विस्मरति । तथा हि- दयितस्यान्यासक्ततया मनः खेदेन दुर्बलाया नायिकाया दयितं प्रति 'किमिति कृशासि' इति प्रश्नस्योत्तरपाटवमाह सखी -
यत्पृच्छसि विहसन्मां तनूयते या कृते नु किं ते सा ? 'प्रकृतिरसौ मे ग्रीष्मे' हन्त भणित्वैवमवरुदिता ॥ ७|११
समवेदनाभावेन सानुतापं प्रष्टव्यमपि यः किल हसित्वा पृच्छति, नायिका तस्मै प्रतीकाराशया अवश्यवक्तव्यमपि कार्यकारणं न प्रकाशयितुमिच्छति । अनुरागशून्यस्याये खलाघव प्रकाशनेन किम् ? आह सा - ' ग्रीष्मे एवंम्लानता मम स्वभाव एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org